OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 2, 2020

तृतीयवारसम्पूर्णपिधानम् - केषुचित् प्रदेशेषु आनुकूल्यादिकं वर्धितम्।
     नवदहली> राष्ट्रे कोविड्१९ व्यापनप्रतिरोधाय प्रख्यापितम् सम्पूर्णपिधानं तृतीयस्तरं प्रति प्रविशति। मार्च् २४ दिनाङ्कादारब्धं प्रथमं पिधानम् एप्रिल् १४ पर्यन्तमासीत्। ततः पिधानकालः मेय् ३ पर्यन्तं परिवर्तितः आसीत्। पिधानमिदं श्वः समाप्यते। किन्तु भारते केषुचित् नगरेषु रोगव्यापनम् अधुनापि नियन्त्रणाधीनं न वर्तते इत्यतः ह्यः केन्द्रसर्वकारेण पिधानं सप्ताहद्वयकालं यावत् दीर्घीकृतम्। तथापि वारद्वयपिधानापेक्षया इदानीम् आनुकूल्यादिकं वर्धितं वर्तते। तदर्थं कोविड्१९ बाधितप्रदेशाः रक्तीयाः, पिङ्लीयाः, हरिताः चेति वर्गीकृताः वर्तन्ते। राष्ट्रस्य १३० जनपदानि रक्तीयविभागे, २८४ जनपदानि पिङ्गलविभागे, ३१९ जनपदानि हरितविभागे च अन्तर्भावितानि वर्तन्ते। तत्र त्रिष्वपि मण्डलेषु वैद्य-निरीक्षणशालाः, व्यावसायिक-वाणिज्यकेन्द्राणि, सर्वकारीय-केन्द्राणि, कृषिस्थापनानि, वित्तकोश-धनकार्यकेन्द्राणि, पत्रालयकेन्द्राणि च उपाधिपूर्वकं प्रवर्तयितुम् अनुमतिः वर्तते। एवं  १० वयसः अधमानां बालानां तथा ६५ वयसः उपरिष्ठानां जनानां च बहिर्गमनं रक्तीय-पिङ्गल-हरितमण्डलेषु निरुद्धं वर्तते। एवं भूतलमार्गद्वारा राज्यान्तरगमनं,  विमान-रेलयानसंविधानं शैक्षिकस्थापनानां प्रवर्तनं, सिनेमाशालाप्रवर्तनं, सामान्य-भोजनालयप्रवर्तनं च सर्वत्र निरुद्धं वर्तते। हरितमण्डलेषु पिङ्गलमण्डलेषु च उपाधिपूर्वकं जनपदान्तर-गमनसहितं सञ्चारानुकूल्यादिकं दत्तं वर्तते।