OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 29, 2020

 ‘मनोगत’प्रसारण-तिथि:-२८–जून-मासः, २०२०
‘मन की बात’

  [भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
      मम प्रियाः देशवासिनः, नमस्कारः | ‘मनोगत’-प्रसारणं २०२०-वर्षे स्वीयाम् अर्ध-यात्राम् अधुना पूर्णताम् नयति | अस्मिन्नवधौ वयम् अनेकान् विषयान् चर्चितवन्तः I स्वाभाविकमिदं यत् या वैश्विकी महामारी समापतिता, मानवजातौ  सङ्कटम् आपतितम्, तदधिकृत्य, अस्माकं सम्भाषणं किञ्चित् अधिकतरमेवासीत् तथा चेदं स्वाभाविकमपि आसीत्, परञ्च, एतेषु दिनेष्वहं पश्यामि, सततं जनेषु, अन्यतम-विषयमाधृत्य चर्चा भवति, यत् अन्ततः वर्षमिदं कदा यापितं भविष्यति? कश्चन केनापि साकं दूरभाषेण सम्भाषते, तदा सम्भाषणं तु, अमुं विषयमाधृत्यैव आरभ्यते, यत् वर्षमिदं सत्वरं कथन्न यापितं भवति? कश्चन लिखति, मित्रैः सम्भाषते वा, तदा  कथयति, यत् वर्षमिदं समीचीनं नास्ति, कश्चन कथयति – २०२०-वर्षं शुभं नास्ति I केवलं, जनाः इदमेव इच्छन्ति यत् येन केनापि प्रकारेण
भारते कोविड् रोगनिर्णणीतानां प्रतिदिनसंख्यायां वर्धनम्।
 कोविड् रोगीणां संख्या उपपञ्चलक्षं प्रविशति।
        नवदहली> भारते गतदिने कोविड् स्थितीकृतानां संख्यायां वर्धनमभवत्। गतदिने एव १९६१० जनेषु रोगः स्थितीकृतः। इयं संख्या तु भारते एतत्पर्यन्तं प्रतिदिनं कोविड् स्थितीकृतानां संख्यामपेक्षया अधिका भवति। कोविड् स्थितीकृत्य चिकित्सायां वर्तमानेषु ३८४ जनाः ह्यः मृताः। रोगबाधिताः प्रायः उपपञ्चलक्षं च भवन्ति। भारते एतावता १६४८७ जनाः कोविड् रोगेन मृताः, ३२१७७४ जनाः रोगमुक्ताः च अभवन्। अधुना २१०८८० जनाः कोविड् चिकित्सायां वर्तन्ते च।
कोविड्१९ रोगनिर्णयः गृहे एव कर्तुं सुविधा सम्पद्यते।
       नवदहली> कोविड्१९ रोगनिर्णयः गृहे एव कर्तुम् उपकारकम् उपकरणं विकासयितुम्  सि एस् ऐ आर् संस्थायाः नियन्त्रणे पूणे मध्ये प्रवर्तमानं नाशणल् केमिकल् लबोरटरि, ऐ ऐ टि दहली च संयुक्तरीत्या एकां परियोजनां निर्वहति। कोविड् रोगनिर्णयः वेगेन अधिकव्ययं विना च कर्तुम् उपयुक्तम् उपकरणम् एकमासाभ्यन्तरे प्रवर्तनयोग्यं करिष्यतीति सि एस् ऐ आर् प्रतिनिधिभिः सूचितम्। कोविड् रोगनिर्णयस्य भागतया क्रियमाणस्य एलिस आन्टिबोटि परीक्षणस्य समानतया शरीरस्थस्य वैरल् आन्टिजनस्य प्रत्यभिज्ञानं अनेन नूतनोपकरणेन साध्यं भविष्यतीति परियोजनायाः नेतृभिः विशदीकृतम्। इमां परियोजनां प्रति  मैक्रोसोफ्ट् संस्थायाः भारतस्थस्य केन्द्रस्य आर्थिकः सहयोगः वर्तते।

Sunday, June 28, 2020

जयपुरप्रान्ते सत्कथामन्दाकिन्या: प्रसारणम् 

    जयपुरम्> संस्कृतभारत्या जयपुरप्रान्तेन सत्कथामन्दाकिनि इति कार्यक्रमस्य आयोजनं फ़ेसबूक् द्वारा ३० अप्रेलत: मईमासपर्यन्तं निरन्तरं जातम्| अस्मिन्न् कार्यक्रमे विभिन्नै: विद्वद्भिः नैकानां श्रेष्ठजनानां जीवनकथा: श्राविता:| एता: कथा: वेद-पुराण-उपनिषद्-लौकिकंसाहित्यं सामाजिकपरिप्रेक्ष्यविषयिणि भवन्ति स्म| गृहसंरोधनकाले संस्कृतप्रेमिणां कृते एष: प्रकल्प: सिद्ध: इति तेषां प्रतिक्रियया ज्ञातम्| अस्य प्रकल्पस्य प्रसारणं प्रतिसायं ०८ वादनत: ०८:३० वादनपर्यन्तं भवति स्म| एतावत् प्राय: २८ कथानां जयपुरप्रान्तस्य फ़ेसबूकामुखपटले लाइवप्रसारणं जातम्| कथायाः दिवसपूर्वं एक: कार्यकर्ता कथावक्तुः परिचयं कथयति स्म| अस्य कार्यक्रमस्य निर्देशक: डॉ० पवनव्यास: संयोजक: तकनीकीसहायकश्च डॉ० घनश्यामहरदेनिया चासीत्| कथाकाराणां समन्वयस्य कार्यं प्रान्तसंपर्कप्रमुकः डॉ० रघुवीरप्रसादमहोदयेन दृष्टम् | प्रचाराय सुन्दराणां फ़लकानां निर्माणं प्रतिदिनं सुश्रीशैलीप्रकाश: दीपकश्च कुरुत: स्म|
चीनसीम्नि भारतस्य १५,००० भटाः विन्यस्ताः। 
 नवदिल्ली > चीनस्य आक्रमणभीषां प्रतिरोद्धुं पूर्वलडाके वास्तविकनियन्त्रणरेखां [एल् ए सि] प्रति भुशुण्डि-युद्धविमानादिसन्नाहैः सह १५,००० भारतीयभटाः सर्वकारेण नीताः। उत्तरलडाके 'दौलत् बाग् ओल्डि' प्रदेशे चीनेन सह कृतसंघर्षानन्तरम् इदानीमेव एतादृशं महान् सैनिकसन्नाहः भारतेन नीयमानः अस्ति। 
  पञ्चभिः 'ब्रिगेड्' नामकसंघैः १५,००० सैनिकाः विन्यस्ताः वर्तन्ते। भटान् विना 'टान्क्' नामकयुद्धोपकरणानि, व्योमप्रतिरोधभुशुण्डयः , अमेरिक्कातः नूतनतया क्रीताः 'अप्पाच्चि' नामकानि आक्रमणोत्सुकानि उदग्रयानानि च युद्धसन्नाहे अन्तर्भवन्ति।

Saturday, June 27, 2020

कोविड् १९ - रोगिणः एककोटिं प्राप्नोति। 
विश्वं कोविड्गृहीतं सत् १८३ दिनानि।
अमेरिक्कायां पिधानं प्रत्यागच्छति। 
  >  चीनराष्ट्रस्य वुहान् प्रविश्यायां मत्स्य-मांसविपणीतः बहिर्गत्वा निखिलं विश्वं सम्भ्रान्तिं निमज्जमानः स्वकीयविक्रियाविलासमनुवर्तमानः अस्ति कोविड् १९ रोगस्य कारणभूतः कोरोणनामकविषाणुः। १८३ दिनेभ्यः पूर्वं चीनात् प्रयाणमारब्धः विषाणुः द्विशताधिकानि राष्ट्राणि सम्प्राप्य अद्यावधि उपैककोटिपरिमितान् जनान् अबाधत। मरणानि तु पञ्चलक्षमुपैति।  
  अत्यधिकं कोविड्बाधिताः मृत्युभूताश्च अमेरिक्कायां सन्ति - यथाक्रमं २५,०६,३७० तथा १,२६,८३९ च। तत्र केवलं ह्य एव ४०,००० कोविड्संख्या निवेदिता। युवकाः एव इदानीं यू एस् मध्ये  रोगबाधिताः भूयन्ते।
    रोगबाधितानां संख्या अनुदिनमुद्गच्छन्ती इत्यतः पूर्वमेव पिधानात् प्रतिनिवृत्तानि टेक्सस्, फ्लोरिडा , अरिसोणा इत्येतानि राज्यानि पुनरपि नियन्त्रणानि विहितानि। 
  इतरेषु राष्ट्रेषु च रोगबाधा उद्गच्छति। ब्रसीले १२ लक्षाधिकाः जनाः रोगबाधिताः अभवन्। ५५,०००अधिताः मृत्युवशं गताः। अन्यराष्ट्रेषु रोगबाधिताः एवम्- [कोष्ठके मृत्युभूताः ] ब्रिट्टन् - ३,०७,९८० [४३,२३०], स्पेयिन् - २,९४,९८५ [२८३३८], रूस् - ६,२०,७९४ [८,७८१], इट्टली - २,३९,९६१ [३४,७०८], भारतं - ५,०६,८८९ [१५,६६२]
कोविड् प्रतिरोधौषधम् वर्षान्ते यावत् - अमेरिक्क।
        वाषिङ्टण्> कोविड् महारोगं प्रतिरोद्धुम् उपयोजकं औषधम् अस्मिन्नेव वर्षे सज्जीकरिष्यति इति अमेरिक्कस्य स्वास्थ्यविभागस्थः मुख्यः कार्यनिर्वाहकः अलक्स् असर् न्यवेदयत्। अमेरिक्कस्य औद्योगिकगृहे सम्पन्ने वार्तामेलने सः विषयममुं न्यवेदयत्। औषधनिर्माणाय प्रयत्नः वर्षान्ते यावत् सफलं भविष्यति इति सः अवदत्। आवश्यकानि निरीक्षण-परीक्षणानि कृत्वा औषधप्रयोगविषये अन्तिमं निर्णयं स्वीकरिष्यति इति ते न विशदीकृतम्। अधुना परीक्षणरीत्या रिम्डिसिवर् डेक्सामेथासो चेति औषधद्वयं रोगिभ्यः दीयमानं वर्तते इति सः अवदत्।

Friday, June 26, 2020

अखिलायां सीमायां चीनस्य अतिक्रमः।

 १९६२तमे अपसृताः प्रदेशाः सर्वे चीनेन आविष्टाः। 
अधिको भारतसेनाव्यूहः सीमां प्रति।
नवदिल्ली >  डेस्पाङ् समस्थलं विहाय यथातथनियन्त्रणरेखासमीपस्थाः [एल् ए सि] सर्वे प्रदेशाः चीनसैनिकसान्निध्यभूताः इति अधिकारिभिः सूचितम्। १९६२ तमे युद्धानन्तरं चीनेन प्रतिनिवृत्ताः प्रदेशाः एते। 
 एल् ए सि प्रदेशेषु सर्वत्र चीनेन सैनिकशिबिराणि निर्मितानीति भारतसैनिकवृत्तैः सूचितम्। अत एव भारतेनापि बृहत्सैन्यव्यूहं एल् ए सि मण्डलेषु विन्यस्तुं निश्चितमस्ति। संघर्षलाघवाय भारतचीनयोर्मध्ये संवृत्ता चर्चा पराजितप्राया भवतीत्यस्य सूचनेति राजनैतिकनिपुणैः निरीक्ष्यते।

Thursday, June 25, 2020

केरले कोविड्बाधिताः प्रतिदिनं शताधिकाः। 
अनन्तपुरी > केरलराज्ये अनुस्यूततया षष्ठे दिने$पि कोविड्रोगबाधितानां प्रतिदिनसंख्या शताधिकाः वर्तन्ते! अपि च प्रतिदिनसंख्या अनुक्रमं वर्धते च। ह्यः १५२ जनाः कोविड्बाधिताः इति स्थिरीकृताः। एतावत्पर्यन्तस्य उच्चतरा संख्या। रोगबाधितेषु ९८जनाः विदेशादागताः, ४६ राज्यान्तरेभ्यः आगताश्च। सम्पर्केण ८ जनाः कोविड्बाधिताः अभवन्। 
  दिनंप्रति विदेशेभ्यः इतरराज्येभ्यः च सहस्रशः जनाः केरलं प्रत्यागच्छन्ति। आगमनेन सहैव एकान्तवासाय विधीयन्ते च। अतः सम्पर्कितरोगबाधा राज्ये न्यूनातिन्यूनं भवति।
  आहत्य ३६०३ जनाः रुग्णाः अभवन्। तेषु १८८८ स्वस्थीभूताः। २२ मरणानि चाभवन्।
विश्वस्य आर्थिकी व्यवस्था अधो गच्छति - ऐ एम् एफ्।

    मनिल> विश्वस्य आर्थिकी व्यवस्था अधो गच्छन्ती अस्ति इति ऐ एम् एफ्। कोरोणस्य आघातेन सञ्जाता आर्थिकी प्रतिसन्धि: अनुदिनं रूक्षतां प्राप्नोति इति ऐ एम् एफ् संस्थायाः नूतनम् अवलोकनं सूचयति। विश्वस्य आभ्यन्तरम् उत्पादनम् अस्मिन् वर्षे ४.९% न्यूनं भविष्यति इति अवलोकनं दर्शयति। वर्षद्वयाभ्यन्तेरे ९०८ लक्षंकोटिरूप्यकाणां नष्टः प्रतीक्षते, ३०० दशलक्षं कर्माणि विनष्टानि भवेयुः- अवलोकनं साक्ष्यीकरोति।

Wednesday, June 24, 2020

यू एन् वेदिकायां केरलाय समादरः। 
यू एन् संस्थायाः स्वास्थ्यविभागस्य उपवेशने के के शैलजा भाषणं करोति। 
अनन्तपुरी > कोविड् प्रतिरोधप्रवर्तनेषु केरलस्य प्रक्रमाः आदर्शपराः इति संयुक्तराष्ट्रसभायाः 'सामान्यसेवादिन'कार्यक्रमे प्रशंसितम्। कोविड् १९ महामारेः प्रतिरोधाय श्रेष्ठां सेवां   कृतवतां  समादर्तुमायोजिते कार्यक्रमे आसीत् केरलाय मुक्तकण्ठप्रशंसा। केरलं प्रतिनिधीभूय स्वास्थ्यमन्त्रिणी के के शैलजा दृश्यश्रव्यप्रणालिकया आयोजिते उपवेशने भागं कृतवती। 
  'कोविड्प्रतिरोधे केरलेन स्वीकृताः फलप्रदाः पदक्षेपाः' इत्यस्मिन् विषये के के शैलजा भाषणं कृतवती। कोविड्प्रतिरोधे 'निपानुभवाः' साह्यभूताः अभवन्निति तया उक्तम्। संक्रमणव्याधिनां काले  कालविलम्बः प्रवर्तनलाघवश्च न युज्यते इत्यनुभवपाठः लब्धः।
   एत्योपियायाः राष्ट्रपतिः सह्ले वर्क् स्यूडे, कोरियाराष्ट्रस्य गृहसुरक्षामन्त्री चिन् यङ् , विश्वस्वास्थ्यसंघटनस्य स्वास्थ्यसेनायाः निदेशकः जिं काम्प् बलः, इत्यादयः शैलजामहाभागया सह चर्चायां भागभागं कृतवन्तः।

Tuesday, June 23, 2020

पूरीनगर्याः परम्परा न अवरुद्धा भविष्यति। उच्चन्यायलेन श्व: भगवतो जगन्नाथदेवस्य रथयात्रायाः सञ्चालनाय आदेशः दत्तः।

पूर्यां अद्य रात्रौ नववादनात् बुधवासरे मध्याह्ने द्वि वादने तावत् पिधानम्।

       भुवनेश्वरम्> जगन्नाथपूर्याम् श्वः रथयात्रा आयोजयिष्यते।  उच्चन्यायालयः यात्रायै अनुमतिम् अयच्छत्, श्रद्धालवः अस्यां यात्रायां सम्मिलिताः न भविष्यन्ति। न्यायालयेन कथितं यत् देवालयसमितिः राज्यसर्वकारस्य केन्द्रसर्वकारस्य च समन्वयेन सह यात्रां निष्कासष्यति। परं जनानां स्वास्थ्येन साकं कथमपि सामञ्जस्यं नैव कर्तव्यम्। यदि स्थितिः अनियन्त्रिता भविष्यति  तर्हि ओडिशा सर्वकारः यात्रां स्थागितुं शक्ष्यति। सहैव कथितं यत् पूरीम् अतिरिच्य ओडिशायाम् कुत्रापि यात्रा नैवायोजयिष्यते।

Monday, June 22, 2020

विश्वे कोविड्१९ रोगिणः उपनवतिसहस्रम्।
       वाषिङ्टण् > विश्वे कोविड्१९ बाधितानां संख्या ८९ लक्षं , मरणसंख्या ४.६६ लक्षं च अतीता। गते चतुर्विंशतिघण्टाभ्यन्तेरे १.५० लक्षं जनाः कोविड्१९ बाधिताः चतुस्सहस्राधिकाः मृताः च अभवन्। अमेरिक्केदेशे रोगबाधितानां संख्या २३ लक्षम् अतीता। ब्रसीले संख्येयं १०.7, रष्यदेशे ६ लक्षं च भवति। भारते तु रोगबाधिताः ४ लक्षम् अभवन्। पेरुदेशे २.५० लक्षं रोगबाधिताः वर्तन्ते। तथापि ब्रिटण्,स्पेयिन्, इटलि इत्यादिषु राष्ट्रेषु रोगबाधितानां संख्या न्यूना अभवत्। विश्वे एतावता ४७.३७ लक्षं जनाः रोगमुक्ताः अभवन्, ३७.०७ लक्षं जनाः अधुना चिकित्सायां वर्तन्ते च।

Sunday, June 21, 2020

वनं-परिस्थितिमन्त्रालयस्य स्वागतगानं संस्कृते। 
 उपज्ञाता केरलीयः वनशास्त्रज्ञः। 
डो. कण्णन् सि एस् वार्यरः।
तृश्शूर् >  केरलीयवनशास्त्रज्ञेन क्रमीकृतं संस्कृतभाषायां विरचितं प्रकृतिवन्दनगानं केन्द्र वनं-परिस्थितिमन्त्रालयेन स्वागतगानं कारयति। कोयम्पत्तूरस्थे केन्द्रीयतरुप्रजननकेन्द्रे मुख्यशास्त्रज्ञाध्यक्षः हरिप्पाट् प्रदेशीयः डो.कण्णन् सि एस् वारियरः एव गानमिदं संस्कृतभाषायां प्रकृतिवन्दनरूपेण व्यरचयत्। 
  यजुर्वेदमाधारीकृत्य एवास्य रचना कृता। कर्णाटकसंगीतस्थेषु 'नाट्टा' 'आनन्दभैरवी' ,'हंसध्वनिः' इत्येतेषु रागेषु क्रमीकृतमिदं गानं वारियरेणैव आलपितमस्ति। मिनिटद्वयं दीर्घितमिदं स्वागतगानम्। 
  २००२तमे वर्षे केन्द्रवनं-परिस्थितिमन्त्रालयेन आयोजितायै सङ्गोष्ठ्यै विरचितमिदं प्रकृतिवन्दनम्। ततः मन्त्रालयस्य सङ्गोष्ठीषु स्वागतगानरूपेण स्वीकृतम्। केन्द्रवनं-परिस्थितिमन्त्रिणः अवधाने आगतमिदं गानं मन्त्रालयस्य स्वागतगानं कारयितुं निर्णयः कृतः आसीत्।
विश्वे कोविड्-रोगग्रस्ताः 89 लक्षमतीताः, मृतानां संख्या 4.66 लक्षमतीताः
चित्रं - गेट्टि
  वाषिङ्टण्> आविश्वं कोविड् रोगग्रस्तानां संख्या 89 लक्षमतीताः 24 होराभ्यन्तरे  1.5 लक्षं जनाः रोगग्रस्ताः अभवन् । 4000 जनाः मृताश्च। इदानीं यावत् 4.66 लक्षात् परं रोगग्रस्ताः मृताः।
 विवरणानि -
अमेरिका - रोगग्रस्ताः 23 लक्षम्
मृताः1,21,979
 व्रसीले रोगबाधिताः 10.70 लक्षम्
रष्य - रोगग्रस्ताः 6लक्षम्  मृताः 8000
भारते रोगग्रस्ताः 4 लक्षम्
मृताः13000 लक्षम्
पेरु - रोगग्रस्ताः 2.5 लक्षम्  आविश्वं 47.37 लक्षम् जनाः रोगमुक्ताः अभवन्। अधुना37.07 लक्षम्  जनाः चिकित्सालये सन्ति। एतेषु 55000 जनानाम् अवस्था गुरुतररीत्या अनुवर्तते।

Saturday, June 20, 2020

वर्षान्ते यावत् कोविड् प्रतिरोधौषधम् उपलभ्यते - विश्वस्वास्थ्यसंस्था।
      जनीव> विश्वस्य विविधासु प्रयोगशालासु कोविड्१९ प्रतिरोधाय उचितम् औषधं विकासयितुं वैज्ञानिकप्रमुखाः प्रयत्‍नं कुर्वन्तः वर्तन्ते, वर्षान्ते यावत् अस्य फलम् उपलभ्यते इति विश्वस्वास्थ्यसंस्था। जनीव मध्ये प्रवृत्ते वार्तामेलने विश्व-स्वास्थ्यसंस्थायाः वैज्ञानिकप्रमुखा डा.सौम्या स्वामिनाथन् एव वृत्तान्तोऽयं न्यवेदयत्। मनुष्येषु प्रयोक्तुं शक्तानि उपदश औषधानि वैज्ञानिकैः विकसितानि सन्ति, एषु त्रीणि यावत् क्षमतानिरीक्षणस्य तृतीयस्तरं प्रविष्टानि, बहुत्र औषधविकसनाय प्रयत्नाः दृश्यन्ते च, एतत्‍सर्वं शुभप्रतीक्षां ददत् वर्तते - सा वार्तामेलने अवदत्।

Friday, June 19, 2020

प्रथमः प्रतिप्रहरः आर्थिकमण्डले। 
चीनेन सह ४७१ कोटिरूप्यकाणां समयः भारतेन निरस्तः। 
 नवदिल्ली >  लडाकस्य गाल्वनाधित्यकायां २० भारतीयसैनिकानां हत्यायाः परं चीनीयसंस्थायै दत्तः ४७१ कोटिरूप्यकाणां  निर्माणसमयः भारतीयरेल्यानसंस्थया निरस्तः। निर्माणप्रगत्यभावादेवायं निर्णयः इत्युच्यते अपि साम्प्रत्यवस्था एव कारणमिति निरीक्षते। 
  लोकबैङ्कस्य साह्येन निर्मातुम् उद्दिष्टमाणस्य 'पूर्वीयपण्यगमनागमनपथस्य' कान्पुरस्य मुगल्सारस्य च मध्ये वर्तमानस्य ४१७ कि मी परिमितस्य मार्गस्य निर्माणसन्धिरेव निरस्यमाना वर्तते। अस्मिन् मण्डले संज्ञासङ्केतसंविधानं [Signal] वार्तावितरणश्रृङ्खलां च सज्जीकर्तुंमुद्दिश्य अभिसन्धिः "Beijing National Railway Research and Design Institute of Signal and Communication" नामिकायै दत्ता आसीत् । सा सन्धिरेव निरस्ता। 
  २०१६ तमे दत्ताम् अभिसन्धिमनुसृत्य २०१९ तमे  समापयितव्यमासीत्। किन्तु इतःपर्यन्तं २०% निर्माणमेव सम्पन्नम्!

Thursday, June 18, 2020

चीनं प्रति भारतस्य प्राबोधनम्। 
 प्रकुप्यते चेत् प्रत्युत्तरं मर्मभेदकं भविष्यति - नरेन्द्रमोदी। 
सैनिकानां जीवत्यागं न वृथा भविष्यति। 
नवदिल्ली >  गतदिने चीनं प्रति सङ्घर्षे बलिदानिनां सैनिकानां जीवत्यागः न वृथा भविष्यतीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। "राष्ट्रं शान्तिमिच्छति। किन्तु प्रकोपनं भविष्यति तर्हि उचितं प्रत्युत्तरं दास्यति। राष्ट्रस्य परमाधिकारं सम्पूर्णतां च संरक्षितुं भारतं प्रतिज्ञाबद्धं भवति।" ह्यः राज्यीयमुख्यमन्त्रिभिः सह मेलने आमुखरूपेण नरेद्रमोदी उक्तवान्। 
  त्यागः सहनं च भारतस्य स्वाभाविको गुणो भवति। शौर्यं शक्तिश्च ताभ्यां सह वर्तेते। अतः अस्माकं सैनिकानां जीवत्यागः कदापि न वृथा भव्ष्यतीति प्रधानमन्त्रिणा असन्दिग्धेन स्पष्टीकृतम्।
चीनभारतयोः सङ्‌घर्षः - सर्वपक्षमेलनाय प्रधानमन्त्रिणः नरेन्द्रमोदिनः आह्वानम्।
   नवदहली> लडाक् सीमनि चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्।  द्वे राष्ट्रे प्रत्यपि संयमनपालनाय यु एन् अध्यक्षः अन्टोणियो गुटेरस् निरदिशत्। नियन्त्रणसीमनि सञ्जातेन सङ्घर्षेण द्वयोरपि राष्ट्रयोः सैनिकानां जीवनाशः अपि सञ्जातः वर्तते, विषयेऽस्मिन् यु एन् कार्यालयस्य उपवक्त्रा एरि कनेको महोदयेनापि आशङ्का निवेदिता। पश्चिमलडाक् मध्ये सञ्जातेन सङ्घर्षेण २० भारतसैनिकाः ४३ चीनसैनिकाः च मृताः वर्तन्ते। समस्यापरिहाराय नयतन्त्रस्तरे चर्चाः पुनरारब्धाः च।

Wednesday, June 17, 2020

चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्।
     न्यूयोर्क्> लडाक् सीमनि चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्।  द्वे राष्ट्रे प्रत्यपि संयमनपालनाय यु एन् अध्यक्षः अन्टोणियो गुटेरस् निरदिशत्। नियन्त्रणसीमनि सञ्जातेन सङ्घर्षेण द्वयोरपि राष्ट्रयोः सैनिकानां जीवनाशः अपि सञ्जातः वर्तते, विषयेऽस्मिन् यु एन् कार्यालयस्य उपवक्त्रा एरि कनेको महोदयेनापि आशङ्का निवेदिता। पश्चिमलडाक् मध्ये सञ्जातेन सङ्घर्षेण २० भारतसैनिकाः ४३ चीनसैनिकाः च मृताः वर्तन्ते। समस्यापरिहाराय नयतन्त्रस्तरे चर्चाः पुनरारब्धाः च।
भारत-चीनसीमायां सङ्घर्षः - 'केणल्'पदीयः अभिव्याप्य २० भारतीयसैनिकानां वीरमृत्युः। 
सङ्घर्षबाधितमण्डलम्।
वीरमृत्युं गतः केणल् सन्तोषबाबुः। 
४३ चैनीयभटाः मृताः। 
भारत-चीनसङ्घर्षे जीवहानिः ४५संवत्सरेषु प्रथमतया। 
नवदिल्ली >  लडाकस्य गाल्वन् अधित्यकायां सोमवासरे रात्रौ चीनाबलेन सह संवृत्ते प्रतिद्वन्द्वे 'केणल्'पदस्थः अभिव्याप्य २० भारतीयसैनिकाः वीरमृत्युं प्राप्तवन्त इति भारतीयस्थलबलेन स्थिरीकृतम्। चीनस्य ४३ सैनिकाः नष्टप्राणाः कठिनतया आहताः वा संवृत्ताः इति शासनकारानुद्धृत्य ए एन् ऐ वार्ताहरसंस्थया निगदितम्। 
  सैनिकविवादं रम्यतया परिहर्तुं कमान्डर्' स्तरीयचर्चायां पुरोगम्यमानायामासीदयं सङ्घर्षः जातः।  न भुशुण्डिप्रयोगे , किन्तु पाषाणखण्डान् दण्डान चोपयुज्य शारीरिकाक्रमणे एव सैनिकानां मृत्युरभवदिति स्थलसेनया स्पष्टीकृतम्। १९७५ तः परं प्रथममेव ईदृशः रक्तरूषितः सङ्घर्षः संवृत्त इति सेनावृत्तैः विशदीकृतम्। 
  आन्ध्रराज्ये विजयवाडप्रान्तीयः भवति वीरमृत्युं प्राप्तवान् केणल् सन्तोष् बाबुः। गाल्वन्नधित्यकायां '१६ बीहार बट्टालियन्' नामकबलविभागस्य कमान्डिङ् अधिकारी आसीत् सः। तमाल्नाट् राज्यीयः हवील्दारः पलनि नामकः, झार्खण्डीयः भटः के के ओझा नामकश्च मृतेषु प्रत्यभिज्ञातौ। 
  पूर्वलडाकप्रदेशस्थेषु गाल्वन्नधित्यका, पाङ्गोङ् तटाकः, होट् स्प्रिङ् इत्यादिषु स्थानेषु मेय् ४ तः उभयोः राष्ट्रयोः सैनिकाः मिथः अनुवर्तमानः सङ्घर्षः सोमवासरे मूर्धन्यं प्राप्त आसीत्।

Tuesday, June 16, 2020

२०२१ तमस्य वर्षस्य ओस्कर् पुरस्कारप्रख्यापनम् - दिनाङ्कः परिवर्तितः। 

ट्विटरतः स्वीकृतं चित्रम्।
       वाषिङ्टण्> विश्वे सर्वत्र कोविड्१९ रोगव्यापनं रूक्षतां प्राप्तेऽस्मिन् सन्दर्भे अग्रिमवर्षस्य ओस्कर् पुरस्कार-प्रख्यापनस्य दिनाङ्कः अपि परिवर्तितः। २०२१ फेब्रुवरिमासस्य २८ दिनाङ्के निश्चितः पुरस्कारप्रख्यापनसमारोहः एप्रिलमासस्य २५ दिनाङ्कं प्रति परिवर्तितः अस्ति। केविड्१९ व्यापनतया बहूनां चलनचित्राणां चित्रीकरणं स्थगितम् अस्ति। २०२० वर्षान्ते एव तासां सिनेमानां चित्रीकरणं पूर्तीकर्तुं शक्यते इत्यतः एव अधिकृतैः पुरस्कार-प्रख्यापनदिनाङ्कः परिवर्तितः वर्तते। पूर्वं प्रतिकूलवेलायां १९३८,१९६८,१९८१ इत्यदिसंवत्सरेष्वपि ओस्कर् पुरस्कार-प्रख्यापनदिनाङ्कः एवं परिवर्तितः आसीत्।

Monday, June 15, 2020

कोविड् - पुनरपि चीनदेशम् आक्रमति। बीजिङ् प्रदेशे ११ स्थानेषु पुनरपि पिधानम् ।
     बीजिङ्> चीनराष्ट्रे कोविड् रोगाणुसङ्क्रमणं पुनरारब्धम्। मांस विक्रयण- शालासंबन्धितया भवति नूतनरोग-व्यापन-वार्ता। अत एव बीजिङ् देशस्थ ११ वासस्थानानि पिहितानि। सिन्फादि मांसविक्रयण-शालां परितः ७ रोगव्यापन-विवरणानि  बहिरागतानि। एतेषु ६ संख्याकानि शनिवासरे एव आवेदितानि भवन्ति इति अधिकारिभिः उच्यते। अत एव समीपस्थाः नव विद्यालयाः शिशुवाटिकाः च पिहितेषु सन्ति।
महानगरेषु कोविड्भीः नापसरति।
दिल्ल्यां केन्द्रशासनम् अन्तर्गच्छति। 
अद्य अमित् शाहस्य नेतृत्वे सर्वदलोपवेशनम्। 
नवदिल्ली >  चेन्नै, मुम्बई, दिल्ली नगरेषु कोविड्बाधा अतिरूक्षतया अनुवर्तते। दिल्ल्यां कोविड्प्रतिरोधविये सर्वोच्चनीतिपीठस्य विमर्शः अपि जातः इत्यतः केन्द्रशासनस्य व्यवधानं निर्णीतम्। 
  रोगिणाम् उपचारसुविधान्यूनतां परिहर्तुं ५०० रेल् यानकक्षाः सज्जीकरिष्यति। षड्दिनाभ्यन्तरे राजधानिमण्डले कोविड्परिशोधनाक्षमतां त्रिगुणीकरिष्यति। तथा च कोविड्प्रतिरोधप्रवर्तनस्य साहाय्यार्थं ६ वरिष्ठानां ऐ ए एस् अधिकारिणां सेवा दीयते।   प्रधानमन्त्रिणः निर्देशानुसारं केन्द्रगृहमन्त्रिणा अमित्शाहेन आयोजिते समुपवेशने आसीदेते निर्णयाः। 
  अद्य राजनगरीस्थानि राजनैतिकदलानि समावेश्य सर्वदलोपवेशनमपि सम्पत्स्यति। दिल्ल्यां रोगबाधिताः ४०००० उपगच्छन्ति।

Sunday, June 14, 2020

तैलेन्धनमूल्यम् ऊर्ध्वं गच्छति। 
कोच्ची > आगोलविपण्याम् असंस्कृतेन्धनस्य मूल्ये अधःस्थिते वर्तिते$पि भारते पेट्रोल्- डीसलिन्धनस्य मूल्यम् अनुदिनं वर्धते। गतसप्ताहं यावत् प्रतिदिनं ५० अधिकाः पैसाः प्रतिलिटर् परिमितस्य वर्धन्ते स्म। पेट्रोल् तैलस्य ३.९० रूप्यकाणि , डीसल् तैलस्य ३.६० रूप्यकाणि च गतेनैकेनसप्ताहेन अवर्धन्त। 
  अस्मिन् कोविड्काले बहुविधकारणैः जनजीवितं दुष्करमित्यतः तैलेन्धनवर्धनं तु अधिकप्रहररूपं वर्तते।
केन्द्रस्वास्थ्यमन्त्रालयेन कोविड् मार्गनिर्देशः परिष्कृतः - गन्धस्य रुचेः च नष्टः कोविड्१९ लक्षणं स्यात्।
     नवदहली> आरोग्यप्रवर्तकेभ्यः दीयमानः कोविड् मार्गनिर्देशः केन्द्रस्वास्थ्यमन्त्रालयेन परिष्कृतः। परिष्कृतनिर्देशेषु कोविड्१९ लक्षणत्वेन अचिरात् अनुभूयमानः गन्धनष्टः रुचिनष्टः च अन्तर्भावितौ वर्तेते। जीवनशैलीरोगैः पीड्यमानेषु जनेषु तथा वयोवृद्धेषु च कोविड्१९ साध्यता अधिका इति मार्गनिर्देशः सूचयति। विश्वे एतावता ७७ लक्षाधिकाः जनाः कोविड्१९ बाधिताः तेषु ४ लक्षाधिकाः जनाः मृताः च वर्तन्ते। भारते तु ३ लक्षाधिकाः जनाः रोगबाधिताः उपनवसहस्रं मृताः च भवन्ति।

Saturday, June 13, 2020

कोविड् - मुख्यमन्त्रिभिः सह प्रधानमन्त्री चर्चां करोति। 
नवदिल्ली > कोविड्व्यापनं, प्रतिरोधप्रवर्तनानि इत्यादिकमधिकृत्य प्रधानमन्त्री नरेन्द्रमोदी अस्यमासस्य १६,१७ दिनाङ्कयोः मुख्यमन्त्रिभिः सह चर्चां करिष्यति। दिनद्वये अपि सायं त्रिवादनात्परमेव चर्चा। षष्ठवारमेव कोविड्प्रतिसन्धिमधिकृत्य प्रधानमन्त्री 'वीडियो काण्फ्रन्स्' द्वारा चर्चाम् आयोजयति। 
  प्रथमे दिने पञ्चाब्, असमः, झार्खण्डः, उत्तराखण्डः इत्यादीनि उत्तरपूर्वस्थानि राज्यानि तथा केरलं च चर्चायां भागं वहन्ति। रोगव्यापनं रूक्षतया वर्तमानानि महाराष्ट्रं, तमिल्नाटु, दिल्ली, गुजरात् इत्यादिभिः राज्यैः सह द्वितीयदिने अवलोकनं करिष्यति।
नेप्पालस्य प्रकोपनं - भुषुण्डिप्पयोगेण एकः भारतीयकृषकः मृतः। 
भुषुण्डिप्रयोगे आहतं पुरुषं आतुरालयं नयति। 
पाट्न >  सीमा उल्लङ्घिता इत्यारोप्य नेप्पालीयारक्षकैः कृतेन भुषुण्डिप्रयोगेण भारतीयकृषकः हतः। बिहारीयः विकेष् यादवः [२२] एव मृतः। 
  उदयठक्कुरः [२४], उमेशरामः [१८], इत्येतै व्रणितौ। लागन् यादवः [४५] इत्येषः नेप्पालस्य सायुधारक्षकसेनया [ए पि एफ्] गृहीतः। 
  बिहारराज्यस्य सीतामढिजनपदसमीपस्थायां भारत-नेप्पालसीमायां कतिपयकालेन संघर्षावस्था वर्तते। लिपुलेखः,कालापानी, लिम्पियाधुरा इत्येते प्रदेशाः स्वकीयाः इत्यधिकारमालक्ष्य नेप्पालराष्ट्रेण नूतनं भूचित्रं प्रकाशितमासीत्। तदनन्तरमेव सङ्घर्षः अजायत। 
  सीमायां परिवेष्टनस्याभावेन उभयराष्ट्रनिवासिनः बन्धुजनसन्दर्शनाय इतस्ततः सञ्चरन्तः सन्ति। कोविड्प्रतिरोधजाग्रतारूपेण पिधानं वर्तमाने सीमाप्रदेशे भारतीयानां सान्निध्यं सञ्चारं च ए पि एफ् दलेन प्रतिरुद्धमित्यतः एव इदृशः घटनाविशेषो जात इति अधिकारिभिः निगदितम्।

Friday, June 12, 2020

कोविड्बाधितसंख्या - भारतस्य चतुर्थं स्थानम्। 
 नवदिल्ली >   कोविड्बाधितानां संख्यायां भारतस्य प्रयाणमनुवर्तते। कोविड्व्यापनं रूक्षमाणेषु राष्ट्रेषु ब्रिट्टनम् अपसार्य भारतं चतुर्थस्थानं प्राप्तम्। ह्यस्तनं प्रतिदिनविषाणुव्यापनं दशसहस्रमतीतमित्यनेन निखिलाः कोविड्बाधिताः २,९१,४३६ अभवन्। अन्तिमसूचनामनुसृत्य ब्रिट्टने कोविड्बाधितानां संख्या २,९१,४०९  आसीत्। 
  भारतस्य महन्नगरेषु विषाणुव्यापनं अनियन्त्रितरीत्या प्रवर्धते।
  महाराष्ट्रे कोविड्बाधितसंख्या तथा मृत्युसंख्या च निरङ्कुशमुद्गच्छति। ह्य एव ३६०७ जनेषु रोगः दृढीकृतः ,१५२ जनाः मृत्युमुपगताश्च। अनेन रोगिणां संख्या ९७,००० अतीता। रुग्णसंख्यायां चीना,कानडा राष्ट्रद्वयं महाराष्ट्रेण अपासृतम्। 
  तमिल्नाटे कोविड्बाधिताः ३८,७१६ जाताः। मरणानि ३४९। चेन्नै जनपदे रुग्णाः अद्यावधि २७,३९८ अभवन्। ह्यः नगरे १४०७ जनाः रोगबाधिताः। आहत्य २०,७०५ रोगमुक्तिं प्राप्ताः च। 
 गुजराते ह्यः ५१३ जनाः कोविड्बाधिताः अभवन्। अहम्मदाबादे एव ३३० जनेषु विषाणुबाधा स्थिरीकृता। गुजराते रोगबाधा २२,०६७ सत्यां अहम्मदाबादस्य योगदानं १५,६३४ अस्ति। 
  दिल्ल्यां रुग्णाः ३४,६८७ जाताः, मृत्युसंख्या तु १०८५। कीन्तु मरणस्य यथातथसंख्या दिल्लीसर्वकारेण निलीना कृतेति सूचना आगच्छति। २०९८ मरणान्यभवन्निति उत्तरदिल्लीनगरसभायाः आवेदनपत्रेण स्पष्टीक्रियते। 
  प्रत्युत राष्ट्रस्य प्रतिदिनकोविड् शोधना सार्धसहस्रमतीतेति ऐ सि एम् आर् अधिकारिणा निगदितम्।
भारते कोविड्१९ रोगस्य सामूहिकव्यापनं न सञ्जातम् इति  ऐ सि एम् आर्।
  नवदहली> भारतस्य जनसंख्याम् आधारीकृत्य राष्ट्रे कोविड्१९ रोगव्यापनं न्यूनं भवतीति ऐ सि एम् आर् संस्थायाः अवलोकनम्। नगरप्रदेशेषु वीथीवासिजनानां मध्ये रोगव्यापनसाध्यता अधिका एव इति संस्थायाः वैज्ञानिकप्रमुखाः अवदन्। सम्पूर्णपिधानं रोगव्यापनं न्यूनीकर्तुम्‌ उपकारकम् अभवत्,अतिव्यापनाय साध्यतां दृश्यमानेषु मण्डलेषु पिधाननियन्त्रणादिकं कठिनं करणीयम् - ऐ सि एम् आर् अध्यक्षः डा.बलरामभार्गवः अवदत्। राष्ट्रस्य जनसंख्यायाः १% जनाः एव रोगबाधिताः वर्तन्ते, अतः सामूहिकव्यापनं न सञ्जातमिति वक्तुं शक्यते, एवमेव राष्ट्रे रोगमुक्तेः अनुपातः ४९.२% भवति, राष्ट्रान्तराण्यपेक्षया भारते मरणानुपातः अपि न्यूनः एव - ऐ सि एम् आर् अध्यक्षः असूचयत्।
पाकिस्थानं कोविड् अधिकतया बाधते। २४ होरा भ्यन्तरे ५००० जनाः रोगग्रस्ताः। 
   इस्लामबाद्> पाकिस्थानेषु कोविड् रोगाणुव्यापनम् अनियन्त्रितम् अभवत्। २४ होराभ्यन्तरे नूतनतया ५३८७ जनाः रोगग्रस्ताः अभवन् इत्यस्ति इदानींतनीया समस्या। २४ होराभ्यन्तरे रोगग्रस्तेषु ८३ सङ्ख्याकाः मारिताश्च। आहत्य इतःपर्यन्तं ११३,८०२ जनाः रोगग्रस्ताः, २२५५ रोगिणः  ३६३०८ रोगविमुक्ताश्च। 
   सन्दर्भेस्मिन् सप्ताहद्वयं यावत्  पिधानम्  वारं वारम् आवश्यकम् इति विश्वस्वास्थ्यया निर्दिष्टम् ।

Thursday, June 11, 2020

'वन्देभारत्' दौत्यस्य तृतीयस्तरः अद्य आरभ्यते।
   नवदहली> विदेशराष्ट्रेभ्यः भारतीयान् भारतं प्रत्यानयनस्य 'वन्देभारत्' दौत्यस्य तृतीयस्तरः अद्य आरभ्यते। ४३ राष्‍ट्रेभ्यः ३८६ सेवनयात्राभिः दौत्यस्य तृतीयस्तरे भारतीयाः प्रत्यानेष्यन्ते। दौत्यस्य प्रथमद्वयस्तराभ्यां पञ्चीकृतेभ्यः ५५%भारतीयाः प्रत्यागताः वर्तन्ते। दौत्येनानेन ४५% भारतीयाः अपि प्रत्यानेतव्याः भवन्ति। दौत्यस्य तृतीयस्तरोऽयं जूलैमासस्य प्रथमदिनाङ्कपर्यन्तं प्रचलति।

संस्कृतभाषायां विश्वस्य प्रथमा 'कोरोनाविषयकजनचेतनाविवर्धिका प्रश्नोत्तरी'

  •   दिन-चतुष्टयं यावत् प्रचलितायाम् अस्यामन्तर्जालीय- संस्कृत-प्रतियोगितायाम् अशेष-देशात् अष्टाशीत्युत्तर-द्विशताधिकैकसहस्रं जनै: प्रतिभागिता विहिता।
  •  पेमाखाण्डु:, हरदीपसिंह: पुरी, सोनल: मानसिंह:, योगगुरु: बाबा रामदेव:, बिबेक: देबरॉय:, डॉ. ए. सूर्यप्रकाशश्चेत्यादया: सुप्रसिद्धा: नेतारो, मन्त्रिण:, कलाकारा:, प्रशासकाश्चापि अस्या: प्रतिस्पर्धाया:  समर्थने ट्वीटर-सञ्जाले रीट्वीट् इति सन्देशस्य पुनःप्रसारणम् कृतवन्त:।
  •  पद्मश्रिया समलङ्कृतस्य विश्वप्रसिद्धस्य मनीषिमूर्धन्यस्य गुणगणगरिष्ठस्य सर्वशास्त्रनिष्णातस्य  भागीरथप्रसादत्रिपाठीति 'वागीश शास्त्रि' वर्यस्य आध्यक्ष्ये प्रतियोगितेयं साफल्येन समनुष्ठितम् ।
  •  ‘लॉक डाउन’ 5.0 अर्थात् पूर्णपिधानस्य पञ्चम-चरणस्य आगामि-प्रश्नोत्तरीप्रतियोगिता 'संस्कृतपत्रकारिताविषये समनुष्ठास्यते ।

      निखिलेSपि देशे यत्र जनसामान्यै: लॉक डाउन 4.0 इति पूर्णपिधानस्य चतुर्थचरणस्य परिपालनं गृहेषु उषित्वा एव कृतं तत्रैव सर्वै: जनै: समसामयिकीं कोरोना-समस्यामवलम्ब्य जनचेतनावर्धनार्थं समायोजितायामद्भुतायां संस्कृत प्रतियोगितायां प्रतिभागोSपि विहित:। अस्या: अद्भुताया: 'कोरोना-जनचेतनाविवर्धिकाया: प्रतिस्पर्धाया: समायोजनस्य विचार: संस्कृतवाङ्मये साहित्याकादेमी युवपुरस्कारेण पुरस्कृतस्य सुख्यातयुवकवे: युवराजभट्टराईवर्यस्य तस्य सुमित्रस्य जीवनजोशी वर्यस्य च मानसे समुद्भूत:। ध्यानास्पदमस्ति यत् युवराजभट्टराईवर्य: देशस्य सुख्यात:संस्कृतयुवकवि: वर्त्तते। तस्य "वाग्विलासिनी" "मनोऽनुरञ्जिनी" चेति  संस्कृतकवितासंग्रहद्वयी संस्कृत जगति सविशेषञ्च युववर्गेषु प्रसिद्धा विद्यते ।  युवराजभट्टराईमहोदय: प्रत्यपादयत् यत् 'प्रधानमन्त्रिण: श्रीनरेन्द्रमोदिन:, राज्य-प्रशासनानां चाध्यर्थनामनुसृत्य सम्पूर्णमपि राष्ट्रं विगत-अष्टषष्टि-दिवसेभ्य: पूर्णपिधानमनुपालयदस्ति। अत एव संगरोधस्य सञ्चाररोधस्य च राजाज्ञापालनपूर्वकं संस्कृतभाषाया: निरन्तरं प्रसारप्रचाराय किमपि क्रियात्मककार्यकरणमावयो: मानसपटलेSवर्तत ।'

  संस्कृत-पत्रकारिता-योग-आयुर्वेद-वास्तुशास्त्रादिप्राच्यविद्यानां संवर्धसंरक्षणपुरस्सरं विश्वमञ्चे संस्कृतस्य प्रतिष्ठापनार्थं सुतरां संलग्नं 'स्वस्तिवाचनम्' इत्याख्यस्य समवा
कोविड् - तमिल्नाटे विधानसभासामाजिकः मृतः।
अन्पष़कः। 
चेन्नै >  तमिल् नाटुराज्ये कोविड् १९ रोगबाधया विधानसभासामीजिकः मृत्युमुपगतः। डि एम् के राजनैतिकदलीयः सामाजिकः जे अन्पष़कः बुधवासरे प्रभाते चेन्नैस्थे निजीयातुरालये कालवशं प्राप्तवान्। भारते कोविड्बाधया मृत्युमुपगतः प्रथमः जनप्रतिनिधिः भवत्येषः।
  चेन्नैयां कोविड् समाश्वासप्रवर्तनेषु नेतृत्वं कुर्वन्नासीत् अन्पष़कः। एतस्मिन्मध्ये ज्वरेण श्वासवैषम्येन च सः जूण् २ तमे आतुरालयं प्रवेशितः। रोगे कठिनतरे श्वसनसहायीमाश्रितः। किन्तु पूर्वं यकृत्स्थानान्तरशस्त्रक्रियाविधेयः इत्यतः चिकित्सा सङ्कीर्णा अभवत्। ह्यः मृत्युश्चाभवत्।

Wednesday, June 10, 2020

विद्यालयीयाध्ययनक्रमन्यूनीकरणं परिगण्यते। 
नवदिल्ली >  कोविड्-१९ रोगव्यापनस्य कारणेन राष्ट्रे विद्यालयेषु अध्ययनादिकस्य  कालविलम्बः भविष्यतीत्यतः २०२०-२१ अध्ययनक्रमस्य पाठ्यसारस्य च न्यूनीकरणं केन्द्रसर्वकारेण परिगण्यते। 
  राष्ट्रस्य इदानीन्तनावस्थां रक्षाकर्तॄणां शिक्षकानां च अभ्यर्थनां च परिगण्य अमुं विषयं चिन्तयततीति मानवविभवशेषिमन्त्री रमेष् पोख्रियालः ट्वीट् द्वारा अवोचत्। अमुं विषयमधिकृत्य शिक्षकाः, शैक्षिकविदग्धाः , शैक्षिकप्रवर्तकाः इत्यादिभ्यः अभिमतानि अपेक्षितानि। मन्त्रालयस्य #Syllabus ForStudents2020 इत्यनेन ट्विटर जालकद्वारा मन्त्रिणः फेस्बुक् द्वारा वा अभिमतानि प्रकाशयितुं शक्यते।
भारते कोविड्१९ व्यापनहेतुः चीनदेशस्थः रोगाणुः न - वैज्ञानिकं अध्ययनफलम्।
      बङ्गलुरु> भारते कोविड्१९ रोगाणुव्यापनहेतुः सार्स् कोव्-२ रोगाणुः चीनदेशस्थः न इति वैज्ञानिकं अध्ययनफलम्। रोगाणुरयं मध्यपूर्वेष्यः, ओष्यानः, दक्षिणेष्यः इत्यादिभ्यः भूप्रदेशेभ्यः आगतः भवति इति 'इन्ट्यन् इन्स्टिट्यूट् ओफ् सयन्स्' इति गवेषणकेन्द्रस्थानां गवेषकानां अध्ययनं विशदयति। अधिकाधिकाः जनाः एतेभ्यः भूप्रदेशेभ्यः एव भारतं प्रत्यागताः इत्येतद् पठनफलस्य निदानत्वेन गवेषकाः सूचयन्ति। ऐ ऐ एस् सि गवेषणकेन्द्रस्य मैक्रोबयोलजि आन्ट् सेल् बयोलजि विभागस्य प्रो.कुमारवेल् सोमसुन्दरः, मयनक् मोण्डाल्, अन्किता, लवार्डे इत्येतेषां २ संघः एव अध्ययनमिदम् समापयत्। जीनोमिक्स् उपयुज्य एव संघस्य अध्ययम्। 

Tuesday, June 9, 2020

निर्देशाः यथातथं पालिताः।
न्यूसिलान्ट् कोविड्मुक्तमभवत्।
न्यूसिलान्टस्य प्रधानमन्त्रिणी जसीन्ता आर्डण्। 
वेल्लिङ्टण् >  स्वास्थ्यप्रवर्तकानां निर्देशाः जनैः स्पष्टतया पालिताः। अतः रोगव्यापनं ११५४ जनेषु नियन्त्रितं कृतम्। २२ जनाः मृत्युमुपगताः। मासत्रयस्य अक्षीणप्रयत्नेन न्यूसिलान्ट् राष्ट्रं कोविड् मुक्तं जातम्। 
  अविश्वसनीयया कृतहस्ततया आसीत् न्यूसिलान्टे कोविड्प्रतिरोधप्रवर्तनानि परिकल्पितानि। अन्तिमस्य कोविड्रोगिणः रोगमुक्त्यनन्तरं  अनुस्यूततया १७ दिनैः नूतनकोविड्बाधितस्य अभावेन राष्ट्रं कोविड्मुक्तमिति प्रधानमन्त्रिण्या जसिन्डा आर्डेण् वर्यया उद्घुष्टम्। अनेन राष्ट्रे विहितानि सर्वाणि नियन्त्रणानि निरस्तानि। किन्तु वैदेशिकानां राष्ट्रे प्रवेशः साम्प्रतमपि निरुद्धः। 
  फेब्रुवरिमासे आसीत् प्रथमं कोविड्प्रकरणं प्रत्यभिज्ञातम्। मार्च् २५दिनाङ्के सम्पूर्णपिधानम् आयोजितम्। स्वास्थ्यमन्त्रालयस्य तथा स्वास्थ्यप्रवर्तकानां निर्देशान् सर्वे जनाः नितान्तजाग्रतया याथातथ्येन च परिपालितवन्तः। कोविड्मुक्तिप्रख्यापनवेलायां जसिन्डावर्यया उक्तम् - "धन्यवादः न्यूसिलान्ट्" ।

Monday, June 8, 2020

आविश्वं कोविड्रोगिणः सप्ततिलक्षं , मरणानि चतुर्लक्षमतीतम्। 
  > विश्वे अद्यावधि ७०,३१,३७७ जनाः कोविड् - १९रोगबाधिताः अभवन्। एषु ३४,३६,८७० जनाः रोगमुक्तिं प्राप्तवन्तः। रुग्णसंख्यायां यू एस् साम्प्रतमपि प्रथमस्थानमावहति। 
   यू एस् मध्ये रोगबाधितानां संख्या विंशतिलक्षमुपगच्छति। तत्र १,१२,१८७ मरणान्यभवन्। द्वितीयस्थाने ब्रसीलः वर्तते। ६.७८ लक्षं रोगग्रस्ताः सन्ति। किन्तु ब्रसीलसर्वकारेण तत्रत्यः कोविड्रोगवृत्तान्तः अन्तर्जालात् निष्काषितः। कोविड्व्यापननियन्त्रणे राष्ट्रपतिःजैर् बोल्सनारो महान् पराजयः इति आक्षेपश्च बहिरागच्छन्नस्ति। 
  रूस् राष्ट्रे ४.६८लक्षं कोविड्बाधाः दृढीकृताः। ५,८५९ मरणानि च अभवन्। स्पेयिने २.८८लक्षं  रोगबाधिताः, २७,१३५ मृताश्च सन्ति। 
  ब्रिट्टने रुग्णाः २.८६लक्षमतीताः। ४०,०००अधिकाः कालगतिं प्राप्ताः। भारते रुग्णानां संख्या अनुदिनं वर्धते। अद्यावधि २,५६,५६३ जनेषु कोविड्रोगः स्थिरीकृतः। मरणानि सप्तसहस्रमतीतानि। 
 इरान् , सौदी अरेबिया इत्यादिषु गल्फ् राष्ट्रेष्वपि कोविड् व्यापनम् अनियन्त्रितरूपेण वर्तते।
विश्वे कोविड्१९ रोगबाधिताः ७० लक्षाधिकाः। 
   वाषिङ्टण्> विश्वे कोविड्१९ रोगबाधितानां संख्या अशीतिसहस्राधिकसप्ततिलक्षं अभवत्। गतचतुर्विंशतिघण्टाभ्यन्तरे अष्टाविंशत्यधिकैकलक्षाधिकेषु जनेषु रोगः स्थिरीकृतः अस्ति। अमेरिक्कदेशे रोगबाधितानां संख्या विंशतिलक्षं, मरणसंख्या द्वादशसहस्राधिकैकलक्षं च अभवत्। विश्वे एतावता कोविड्१९ मरणसंख्या ४.५ लक्षम् अभवत्। अधुना यूरोपीयराष्ट्रेषु कोविड्१९ नियन्त्रणविधेयः अभवदिति विश्वस्वास्थ्यसंस्था अवदत्। किन्तु अमेरिक्क, लाटिन् अमेरिक्क, एष्यः,आफ्रिक्क इत्यादिषु भूप्रदेशेषु रोगव्यापनम् आशङ्काजनकमेवेति संस्था असूचयत्। अतः सामूहिकसुरक्षानिर्देशाः अवश्यं पालनीयाः इत्यपि विश्वस्वास्थ्यसंस्था निरदिशत्।

Sunday, June 7, 2020

कोविड्१९ व्यापनं भारते सप्तम्बर् मासान्ते पर्यवसति - वैज्ञानिकप्रमुखाः।
     नवदहली> अस्य वर्षस्य सप्तम्बर्मासान्ते भारते कोविड्१९ व्यापनं पर्यवसति इति विशदीकृत्य स्वास्थ्यविभागस्थाः वैज्ञानिकप्रमुखाः। केन्द्रस्वास्थ्यमन्त्रालस्य उपनिदेशकप्रमुखः डा.अनिलकुमारः, सहकारि डा.रूपालि राय् इत्येताभ्यां प्रकाशितं लेखनमेव विषयममुं सूचयति। रोगबाधितानां संख्या रोगमुक्तिं प्राप्तानां संख्या मृतानां संख्या इत्येवम् अंशानामाधारेण एव लेखनं सज्जीकृतं वर्तते। मेय् मासे ४२% आसीत् अयमनुपातः, सप्तम्बर्मासान्ते अनुपातोऽयं १००% प्राप्स्यति इति डा.अनिलकुमारः वार्तामाध्यमान् प्रत्यवदत्। भारते एतावता कोविड्१९ रोगबाधिताः २३६६५७, रोगमुक्तिं प्राप्ताः ११४०७२ च वर्तन्ते। ६६४२ जनाः कोविड्१९ रोगेण मृताः च सन्ति।
कोविड् मरणानि आविश्वं चतुर्लक्षं - जाग्रतायां जनाः शैथिल्यमावहन्ति। 
'वियट्नां लीग्' द्रष्टुं कोविड् नियमानुल्लंघ्य जनाः। 
  > अखिले लोके कोविड्रोगेण चतुर्लक्षाधिकाः जनाः परलोकं गताः। यू एस् मध्ये १,११,६२७  ,ब्रिट्टने ४०,४६५ , ब्रसीले ३५,१३९ ,इट्टल्यां ३३,८४६ , फ्रान्से २९,१११ , भारते ६९६० ... एवं मरणानि तथा रोगसंक्रमणं च एतेषु राष्ट्रेषु प्रतिदिनं वर्धते। किन्तु  जाग्रतापालने जनानां निष्ठा सर्वेषु राष्ट्रेषु उपेक्षितप्राया दृश्यते। भारतमभिव्याप्य बहुषु राष्ट्रेषु पिधाने नियन्त्रणे च बहूनि शैथिल्यानि अनुमोदितानि। एतेषां दुरुपयोग एव सर्वत्र दृश्यते। 
यूएस् मध्ये वीथिं प्रपूरिताः प्रक्षोभकाः।
  वियट्नामदेशे 'वियट्नां लीग्' नामिका पादकन्दुकक्रीडापरम्परा पुनरारब्धा। प्रेक्षकाः कोविड् व्यवहारनिष्ठां तृणवत्कृत्य एव क्रीडादर्शनाय क्रीडाक्षेत्रं प्राप्तवन्तः। अमेरिक्कायां प्रशासनं विरुध्य सहस्रशः जनाः वीथिषु प्रपूरिताः। 
  सामाजिकदूरपालनं, मुखावरणधारणं, हस्तप्रक्षालनमित्यादिकं विनैव सामान्यजनाः सामान्यस्थानेषु विपणिषु बस्याननिस्थाषु इत्यादिषु व्यवहरन्ति।
विश्वे अधिकतया वेतनं स्वीक्रियमाणानां प्रमुखानां श्रेण्यां भारतस्य अक्षयकुमारः अपि।
     नवदहली> विश्वे अधिकतया वेतनं स्वीक्रियमाणानां प्रमुखानां श्रेण्यां  हिन्दीसिनेमाभिनेता अक्षयकुमारः अपि। अमेरिक्कस्य दूरदर्शनाभिनेत्री कैली जेन्नर् श्रेण्यां प्रथमस्थाने वर्तते। तस्याः प्रतिवर्षवेतनं ४४६१ कोटिरुप्यकाणि भवन्ति। श्रेण्याम् अक्षयकुमारस्य स्थानं द्विपञ्चाशत् भवति। तस्य वार्षिकवेतनं ३६६ कोटिरुप्यकाणि भवन्ति। श्रेण्यां स्थानं लब्धेषु एक एव भारतीयः भवति अक्षयकुमारः। २०२०तमस्य वर्षस्य फोब्स् मासिकायाः श्रेणी एव प्रकाशिता वर्तते। टेन्नीस् क्रीडकः रोजर् फेडरर्, पादकन्दुकक्रीडकौ क्रिस्ट्यानो रोणाल्डो लयणल् मेसि प्रभृतयः श्रेण्यामस्यां अग्रिमस्थानेषु वर्तन्ते।

Saturday, June 6, 2020

 भारतचीनयोर्मध्ये सीमां सम्बन्ध्य समस्या -चर्चा प्रचलन्ती वर्तते।
     नवदहली > पश्चिमलडाक् मध्ये सीमां सम्बन्ध्य भारतचीनयोर्मध्ये अनुवर्तमानां समस्यां परिहर्तुं द्वयोरपि राष्ट्रयोः सैनिकस्तरीयचर्चा अग्रेसरन्ती वर्तते। अद्य प्रातः आरब्धायां चर्चायां भारतेन क्रियमाणं मार्गनिर्माणं मुख्यविषयः अभवत्।  सीमायाः चीनदेशेन स्वसैन्यं प्रत्याहूतं चेदेव भारतेनापि सैन्यं प्रतिगृह्यते इति भारतप्रतिनिधिभिः अर्थशङ्कां विना चर्चायां विशदीकृतम्। भारतसीमाभ्यः चीनशेन निर्मितानि आंशिकभवनानि निष्कासनीयानि इत्यपि चर्चायां भारतेन निवेदितम्। पश्चिमलडाक् सीमायाः संरक्षणदायित्‍वम् निर्वहन् लफ्ट्णन्ट् जनरल् हरीन्दरसिंहः चर्चायां भारतस्य प्रतिनिधिः भवति। भारताधीनप्रदेशेषु क्रियमाणं मार्गनिर्माणं चीनदेशं लक्ष्यीकृत्य न भवति, मण्डलस्य परिपालनाय प्रवृत्तिरियम् आवश्यकी एवेति भारतेन विशदीकृतम्। चर्चा अधुनापि प्रचलन्ती एव भवति।

मुखावरणधारणं उपकारप्रदम् इति प्रमाणं लब्धम्- विश्वस्वास्थ्य-संस्था।

  जनीव>  वैराणुं प्रतिरोद्धुं मुखावरणधारणं उपकारप्रदम् इति सप्रमाणं विशदीक्रियते विश्वस्वास्थ्य-संस्थया। पूर्व कालीननिर्देशात् विपरीतं निर्दिश्यते संस्थया। सार्वजनिन प्रदेशेषु सर्वे मुखावरणं धर्तव्यम् इति निर्देशः अधुना प्रसारितः अस्ति। The lan site इति पत्रिकायामेव विवरणोऽयं प्रसारितम्। 
मुखावरणधारणेन नासिकायाः मुखात् वा स्रवाणां प्रसरणैः जायमानं  रोगव्यापनं रोद्धुं शक्यते।  अमेरिक, कानड, लण्टन्, चीना इत्येतानां विश्वविद्यालयेषु सम्पन्ने अनुसन्धाने एव नूतनोऽयं अध्ययनफलम्।
केरले पिधाने अधिकानि शैथिल्यानि ।
आराधनालयाः उद्घाट्यन्ते। 
किन्तु अवस्था रूक्षा ; जाग्रता पालनीया इति मुख्यमन्त्री। 
अनन्तपुरी > केरलस्य 'कोविड् १९ नियन्त्रणेषु' अधिकानि शैथिल्यानि उद्घोष्य राज्यसर्वकारः। केन्द्रप्रशासनस्य निर्देशान् आधारीकृत्य एव समाश्वासप्रक्रमाः उद्घुष्टाः।
   तदनुसृत्य आराधनालयाः कर्कशनियन्त्रणान् परिपाल्य उद्घाटितव्याः। शबरिगिर्यां दर्शनं 'वेर्च्वल्'पङ्क्तिद्वारा नियन्त्रिष्यति। आराधनालयेषु विहिताः सामान्यनिर्देशाः एवम् --
* सामान्यस्थानेषु इदानीमपि परिपालयिव्याः (मुखावरणं, वैयक्तिकदूरं, हस्तप्रक्षालनमित्यादिकं) निर्देशाः अवश्यं करणीयाः!
* ६५अधिकवयस्काः, दशन्यूनवयस्काः बालाः, गर्भवत्यः महिलाः ,प्रकटितरोगलक्षणाः इत्यादयः आराधनालयं न गन्तव्याः! 
* अन्नदानं , अर्चनाद्रव्यवितरणं स्पर्शनेन अनुग्रहः , प्रतिष्ठासु तथा विशुद्धग्रन्थेषु स्पर्शः इत्यादिकं न अनुमोदिताः! 
* स्पर्शनेन विना 'मामोदीसा' कार्या! 
   किन्तु रोगसंक्रमणे केरलस्य स्थितिर्रूक्षा वर्तत इति मुख्यमन्त्रिणा पिणरायिविजयेन निगदितम्। राज्ये प्रप्रथमतया प्रतिदिनरोगिणां संख्या अङ्कनत्रयमतीता। ह्यः १११ जनेषु कोविड् दृढीकृतम्। ५० विदेशात् ४८ इतरराज्येभ्यशचागताः सन्ति। सम्पर्केण १३ जनाः रोगबाधिताः। तेषु त्रयः स्वास्थ्यप्रवर्तकाः भवन्ति। 
    केरले अखिले रोगबाधिताः १६९९ , मरणानि १४, रोगमुक्ताः ७१२। इदानीं ९७३ रुग्णाः चिकित्सायां वर्तन्ते।

Friday, June 5, 2020

केरले कोविड्रोगिणः १५००; मरणानि ११।
 अनन्तपुरी> केरले अद्यावधि १४९४ जनाः कोविड् - १९ रोगबाधिताः जाताः। ९९ रोगिणः परलोकं प्राप्ताः। ६५१ रोगमुक्ताः जाताः। ह्यः ८२ जनेषु रोगः स्थिरीकृतः। एषु ५३ प्रवासिनः १९ इतरराज्येभ्यः आगताश्च। ५ स्वास्थ्यप्रवर्तकानभिव्याप्य दश सम्पर्केण रोगबाधिताः अभवन्।
विजयमल्या भारतमानीयते। 
नवदिल्ली> अलीकर्णधनपरिग्रहणेन वित्तकोशानां सहस्रकोटिशः नष्टं कारयित्वा ब्रिट्टनं पलायितवान् मद्यराजः विजयमल्यः भारतमानीयते। सिबिऐ , ई डि संस्थयोः अधिकारिणामधीने अद्य सः मुम्बई विमाननिलयं प्राप्नोति। ततः नीतिन्यायप्रक्रमान् निर्वाह्य अन्वीक्षणाय सि बि ऐ ,ई डि संस्थाभ्यां परिगृह्यते।
 सीमासङ्घर्षः - भारत-चीनसैनिकतलचर्चा शनिवासरे। 
नवदिल्ली> यथातथनियन्त्रणरेखायां [एल् ए सि] वर्तमानं भारत-चीनसंघर्षं परिहर्तुं उभयोः राष्ट्रयोः 'लफ्टनन्ट् जनरल्' पदीयाः सैनिकाधिकारिणः परस्परचर्चां करिष्यन्ति। भारतचीनविवादं परिहर्तुं कस्यापि मध्यस्थस्य आवश्यकता नास्तीति चीनस्य विदेशकार्यालयवक्ता षावो लिजियान् इत्येषः अवोचत्।
कोविड्१९ - भारते ८४% रोगिषु रोगाणुसान्निध्यं न्यूनानुपाते इति  अध्ययनावलोकनम्।
     नवदहली >भारते कोविड्१९ रोगव्यापने कोरोणरोगाणोः रोगिषु सान्निध्यं राष्ट्रान्तराण्यपेक्षया न्यूनमेवेति  अध्ययनावलोकनम्। भारते ८४% रोगिषु अपि रोगाणोः सान्निध्यं आशङ्काजनकं न भवति, अनेन रोगव्यापनसाध्यतापि विरलेति अवलोकनं सूचयति। एतेभ्यः रोगिभ्यः ०.८% एव रोगव्यापनं स्यात्। तथापि, ७% रोगिषु रोगाणोः सान्निध्यं उन्नतानुपाते वर्तते। एतत्तु ६.२५% इत्यनुपाते रोगव्यापनाय कारणं भवति इति ऐ सि एम् आर् संस्थायाः नेतृत्वे कृतं  अध्ययनं सूचयति।
स्वयंपर्याप्तमार्गैः भारतस्य आर्थिकीं व्यवस्थां शक्तं कुर्वन्तु - प्रधानमन्त्री नरेन्द्रमोदी।
     नवदहली> कोविड् प्रतिरोधप्रवर्तनेषु भारतस्य विपुला जनसंख्या क्लेशजनिका एव इति प्रधानमन्त्री नरेन्द्रमोदी। अत्याधुनिकस्वास्थ्यसंविधानानि सन्ति चेदपि १३०कोटि इति जनसंख्या कुत्रचित् प्रतिरोधप्रवर्तनानि प्रतिकूलतया बाधते, तथापि विश्वस्य अतिसम्पन्नराष्ट्राणाम् अधुनातनावस्थया सह तुलनेन भारतीयानाम् एकता सामर्थ्यं च उत्तमम् इत्येतत् अभिनन्दनमर्हति - केन्द्रसर्वकारस्य वार्षिकदिने जनान् प्रति सज्जीकृते लेखने प्रधानमन्त्री असूचयत्। सर्वे भारतीयाः कोविड्प्रतिरोधप्रवर्तनेषु आत्मविश्वासेन दृढनिश्चयेन च भागभागिनः अभवन्। प्रतिकूलेऽस्मिन् समये बहुभ्यः जनेभ्यः कष्टताः समस्याः च अभवन्, तासां परिहाराय सर्वकारः प्रतिज्ञाबद्‌धः अस्ति, सर्वेषाम् ऐक्यं पुरस्कृत्य ताः परिह्रियन्ते - नरेन्द्रमोदिनः लेखनं सूचयति। वाणिज्यव्यापारमण्डलसहितेषु सर्वत्र स्वयंपर्याप्तप्रवर्तनैः सह राष्ट्रस्य सम्पद्व्यवस्थायाः पुनरुज्जीवनं केन्द्रसर्वकारस्य मुख्यं लक्ष्यं भवति, तदर्थम् आवश्यकाः निर्देशाः २०लक्षं कोटिरुप्यकाणाम् आत्मनिर्भरभारताभियानपरियोजनया दत्ताः सन्ति, एकैकस्यापि भारतीयस्य कृते अवसराणां नवयुगं स्रष्टुं परियोजनेयम् उपकरिष्यति, तेषां प्रयोजनं राष्ट्रस्य अधःस्थितजनविभागतः सर्वेभ्यः लभ्यते - प्रधानमन्त्री लेखनेन सूचयति।

Thursday, June 4, 2020

त्रयः भीकराः भारतबलेन निहताः। 
श्रीनगरं >  दक्षिणकाश्मीरस्य पुल्वामप्रदेशे 'जय्षे मुहम्मद'नामिकायाः आतङ्कवादसंस्थायाः बोम्बनिर्माणविदग्धः अभिव्याप्य त्रयः भीकराः भारतबलेन व्यापादिताः। 'ऐ ई डि' विदग्धः फौजि भायीति कुप्रसिद्धः अब्दुल् रह्मान् नामकः तदितरौ च सैन्यारक्षकरक्षासेनानां संयुतप्रक्रमेण निहताः। अन्यौ द्वौ न प्रत्यभिज्ञातौ। पुल्वामप्रदेशस्य 'कङ्कण'मण्डले बुधवासरे प्रभाते आसीत् प्रतिद्वन्द्वः संवृत्तः। 
  फौजि भायीत्यस्य यथार्थनाम  'इक्रमः' , सः जय्षे मुहम्मदस्य वरिष्ठनेता अब्दुल् रौफ् अस्गर् इत्यस्य विश्वस्तः इति आरक्षकप्रमुखेण विजयकुमारेणोक्तम्। मेय् २८ दिनाङ्के पुल्वामे ४८ किलोपरिमितस्फोटकवस्तुपूर्णे कार् याने निगृहीते , एषः रक्षां प्राप्तः इति तेन निगदितम्। 
  फौजीनामकस्य वधः सैन्याय महाल्लाभ इति मन्यते।
आशङ्कां संवर्ध्य कोविड्१९- विश्वे कोविड्१९ रोगिणां संख्या वर्धते।
       वाषिङ्टण् > आशङ्कां संवर्ध्य विश्वे कोविड्१९ रोगिणां संख्या अनुदिनं वर्धमाना एव। नूतनावलोकनमनुसृत्य रोगिणां संख्या ६५.५ लक्षम् अतीता च। एतावता विश्वे कोविड्१९ रोगेण ३८७.८७८ जनाः मृताः ३,१६४,२५३ जनाः रोगमुक्तिं प्राप्ताः च वर्तन्ते। अमेरिकदेशे स्थितिः गुरुतरा इव अनुवर्तते। ब्रसील्-रष्यदेशयोः अवस्थापि भिन्ना न। तथापि,प्रथमं रोगव्यापनम् अधिकतया दृष्टानां स्पेयिन्,इटलि,युके इत्यादिषु कोविड्व्यापनं नियन्त्रणात्मकं वर्तते इत्येतत् आश्वासदायकं वर्तते।

Tuesday, June 2, 2020

मण्सूण् वर्षाकालः केरलं समागतः ; 'निसर्ग' चक्रवातः अद्य प्राप्नोति। 
 अनन्तपुरी >  दक्षिणपश्चिमीयः वर्षाकालः [मण्सूण् वृष्टिः] जूण् प्रथमे दिने एव केरलं संप्राप्तः। परं सेप्टम्बर् मासपर्यन्तं केरले वृष्टिकालः। अस्मिन्नवसरे अपि भारतस्य दक्षिणप्रान्तेषु सामान्यतया महती वृष्टिः लप्स्यत इति पर्यावरणविभागेन निगदितम्। 
   गतदिने लक्षद्वीपसमीपे रूपीकृतः न्यूनमर्दः गोवातीरे शक्तो$भवत्। अद्य सः महान् चक्रवातः भविष्यति । तस्य निसर्ग इति नामापि कृतम्। चक्रवातः महाराष्ट्रस्य उत्तरं तथा गुजरात्तस्य दक्षिणं तीरं प्राप्स्यति। बुधवासरे सायं महाराष्ट्रस्य रायिगडे हरिहरेश्वर-दामनोः मध्ये अयं भूस्थलं प्राप्स्यतीति केन्द्रपर्यावरणविभागेन उक्तम्।

Monday, June 1, 2020

केरलीयविद्यालयेषु अद्य विद्यारम्भः - 'ओण् लैन्' द्वारा! 
विक्टेर्स् नालिकाद्वारा अद्य आरब्धः +२ कक्ष्यायाः आङ्लविषयवर्गः!
अनन्तपुरी > केरलीयविद्यालयछात्राणामद्य नूतन साक्षिकसंवत्सरस्य प्रारम्भः। प्रथमकक्ष्यातः आरभ्य दशमीकक्ष्यापर्यन्ताः छात्राः तथा +२ छात्राश्च स्वगृहेषु एव तिष्ठन्तः अध्ययनदिनानां प्रारम्भः कुर्वन्ति। 'कैट् विक्टेर्स्' संप्रेषणनालीद्वारा 'First Bell' नामकाः ओण् लैन् वर्गाः प्रचलन्ति। प्रतिविषयं अर्धहोरायुतवर्गाः एव सन्ति। प्रभाते ८.३० वादनतः ५.३० वादनपर्यन्तमेव वर्गाः प्रचलिष्यन्ते। प्रथमवर्गः +२ छात्राणां कृते आङ्गलविषये भविष्यति! 
  दूरदर्शनं, आन्ड्रोय्ड् दूरवाणी, सङ्गणकयन्त्रम् इत्यादिभिः कक्ष्याः अनुगन्तुं शक्नुवन्ति। www.victers.kite.Kerala.gov.in इति अन्तर्जालद्वारा , facebook.com/Victerssduchannel इति फेस् बुक् द्वारा अपि तत्समयसम्प्रेषणं द्रष्टुं शक्यते। संप्रेषणानन्तरं youtube.com/itsvicters इति यूट्यूब् नालिकाद्वारा अपि द्रष्टुं शक्यते। प्रथमसप्ताहे वर्गाः परीक्षणरूपेणैव स्वीक्रियन्ते। अगामिसोमवासरे यथाक्रमं पुनःसंप्रेषणमपि भविष्यति।