OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 22, 2020

संस्कृतसप्ताहः कथम् आचरणीयः?

च मू कृष्णशास्त्ररी -
spf
आगामिनः जुलै 31तमदिनाङ्कात् अगस्त 6 दिनाङ्कं यावत् संस्कृतसप्ताहः। 3 दिनाङ्के संस्कृतदिवसः। संस्कृतसम्बन्धे जनजागरणाय एषः कार्यक्रमः। प्रतिवर्षं सभा शोभायात्रा प्रदर्शिनी इत्यादिरूपेण बहुविधाः कार्यक्रमाः भवन्ति स्म। परन्तु कोरोनाकारणेन एतस्मिन् वर्षे न शक्याः। तथा चेत् कथम् आचरणीयः इति प्रश्नः। यथा कुञ्चिकारहितः तालः न भवति तथा परिहाररहिता समस्या अपि न भवति। ट्विटर, फेसबुक्, वाट्साप्, इन्स्टाग्राम इत्यादीनां सामाजिकमाध्यमानाम् (Social Media) उपयोगेन
अस्माकम् उद्देशभूतः विचारप्रचारः शक्यः। अधिकान् जनान् वयं प्राप्तुं शक्नुयाम च। तर्हि अस्माभिः किं किं करणीयम् इति विषये भवतः चिन्तनस्य उद्दीपनाय अत्र केचन विचाराः दीयन्ते।

सर्वः अपि विद्यालयः, महाविद्यालयः, विश्वविद्यालयः, संस्कृतसम्बद्धसंस्था, संघटनं च स्वेन क्रियमाणानि जनोपयोगिकार्याणि संस्कृतसप्ताहे सामाजिकमाध्यमैः जनान् सूचयेत्, संस्कृतविषये जनानां भ्रमाणां दूरीकरणाय प्रयतेत च। तथैव सर्वः अपि संस्कृतच्छात्रः शिक्षकः प्राध्यापकः संस्कृतानुरागी च वैयक्तिकरूपेण अपि विचारप्रचाराय सप्ताहं यावत् अहर्निशं प्रयत्नं कुर्यात्। एवं प्रयत्नः द्विधा – सांस्थिकरूपेण व्यक्तिगतरूपेण च। संस्कृतभारत्याः प्रचारविभागेन किञ्चित् “हाश् टाग्” निश्चीयेत। तदेव सर्वैः उपयुज्येत चेत् प्रचारसौलभ्यं भवेत्, महत्तरः परिणामः च भवेत्।

वीडियोचित्राणि, स्थिरचित्राणि, वर्णमयफलकानि(posters, banners, slides etc.), लेखाः च प्रभावकारिणः भवन्ति। केवलं प्रतिशतं पञ्च जनाः एतादृशानि फलकवीडियोचित्रादीनि सज्जीकर्तुं शक्नुवन्ति। अन्ये प्रतिशतं पञ्चनवतिः जनाः स्वयं निर्मातुं न शक्नुयुः, परं तादृशानि सर्वाणि एकत्र जालपुटे लभ्यन्ते चेत् तेषाम् अवतारणं कृत्वा पुनः प्रसारणम् अथवा अग्रेसारणं कर्तुं शक्नुयुः। अतः संस्थाः संघटनानि विश्वविद्यालयाः च एतादृशीः सामग्रीः निर्माय स्वीयजालपुटे सुलभतया अवतारणयोग्यरूपेण स्थापयिष्यन्ति चेत् अधिकाः जनाः प्रचाराभियाने भागं वहेयुः। सज्जतार्थं समयः अत्यल्पः, दशदिनानि केवलम् अवशिष्टानि, त्वर्यताम्।

वीडियोचित्राणि निमेषद्वयस्य केवलं भवेयुः(यतः ट्विटर् मध्ये तावतः एव कालस्य चित्रस्य आरोपणं सरलतया भवति)। बालाः, छात्राः, वृद्धाः, कृषकाः, आपणिकाः, कर्मकराः, गृहिण्यः, युवकाः, युवत्यः इत्येवंरूपेण बहुविधजनानां संस्कृतेन भाषणस्य, संभाषणस्य, कस्यचित् विषयस्य वर्णनस्य, कथाकथनस्य, विनोदकणिकायाः वा वीडियो निर्मीयताम्। अग्रिमदशदिनेषु सर्वः अपि एतादृशानां बहूनां चित्रीकरणं कृत्वा सज्जं स्थापयेत् तथा च संस्कृतसप्ताहे प्रतिदिनं निश्चिते समये निश्चितेन हाश् टाग् इत्यनेन सहितं सामाजिकमाध्यमेषु स्थापयेत् च।

य़ुट्यूब् मध्ये सहस्रशः संस्कृतसम्बद्धानि भाषणानि (संस्कृतेन अन्यभाषाभिः वा) सन्ति। भाषणकारस्य अनुमतिं स्वीकृत्य तेषां भाषणस्य उत्तमभागानां, प्रतिभागं निमेषद्वयस्य इव, कर्तनं कृत्वा तेषां प्रसारणं कर्तुं शक्यते अथवा तस्य एव लिंक् प्रसारयितुं शक्यते। (मम भाषणानाम् उपयोगाय कर्तनाय वा भवते अनुमतिः दत्ता अनेन माध्यमेन इति मन्यताम्।) भाषणानि विहाय अपि अन्ये अपि बहुविधाः उत्तमाः कार्यक्रमाः असङ्ख्याः तत्र सन्ति। तेषु ये कार्यक्रमाः संस्कृतस्य सरलतायाः अनुभूतिं कारयन्ति तेषां सर्वेषां प्रचारः अवश्यं कर्तव्यः।

वयं सर्वे तु अभियाने भागं वहेम एव। परन्तु महाजनानां येषां सामाजिकमाध्यमेषु अनुयायिनः बहवः सन्ति तेषां कथनानि प्रकाशितानि चेत् विचारः अधिकान् जनान् प्राप्नुयात्। सर्वे महाजनाः संस्कृतम् इच्छन्ति एव। अस्माभिः तेषां सम्पर्कः करणीयः, तेभ्यः विषयं दत्त्वा साहाय्यं करणीयम् इति तत् कार्यं महत्त्वपूर्णम्। सर्वः अपि संस्कृतकार्यकर्ता स्वस्य स्तरे (नगर-जनपद-प्रान्तादिषु स्तरेषु) विद्यमानानां महतां सम्पर्कं कृत्वा तस्य वचनं सामाजिकमाध्यमेषु प्रसारितं भवेत् इति प्रयतेत।

सामाजिकमाध्यमेषु याः सामग्र्यः स्थापयिष्यन्ते तासां विषयेषु उपस्थापनेषु चित्रीकरणेषु इति त्रिषु नवीनता गुणवत्ता विविधता इति तिस्रः श्रेष्ठताः यदि स्युः तर्हि जनमानसे संस्कृतस्य प्रभावः समीचीनतरः भविष्यति। अतः एतस्मिन् विषये अस्माकं गुणात्मकं विशिष्टम् अवधानं विशेषपरिश्रमः च भवेत्। तानि वचनानि, प्रसार्याः विविधप्रस्तुतयः वा सर्वाभिः भारतीयभाषाभिः भवन्तु। अधिकभाषाभिः क्रियमाणैः भाषणैः लेखनैः वा, अधिकजनानां भागग्रहणेन, अधिकप्रभाविजनानां भागग्रहणेन, अधिकसङ्ख्यया प्रसारणैः(सन्देशैः) च अधिकदूरपर्यन्तम् अधिकजनपर्यन्तं च संस्कृतस्य सुगन्धः प्रसरेत्। अतः एतेषां चतुर्णाम् अंशानां विषये सङ्ख्यात्मकं विशिष्टम् अवधानं करणीयम्।

प्रत्येकं संस्था संघटनं विश्वविद्यालयः वा प्रचाराभियानाय सप्तदिनानां कृते सप्तविषयान् स्वीकर्तुं शक्नोति। संस्कृतसप्ताहस्य आचरणं केवलं संस्कृतज्ञानां न भवेत् इति विशेषजागरूकता करणीया। संस्कृतं समग्रस्य समाजस्य अस्ति। अन्ये किं कुर्युः इति चिन्तयितुं तेषां सम्पर्कः करणीयः। सहयोगेन कार्यं साधनीयम्। कार्यम् अस्माभिः एव करणीयं भविष्यति चेत् अपि संस्कृतेतरसंस्थानां जनानां वा नाम्ना संस्कृतसप्ताहस्य कार्यकरणेन संस्कृतस्य लाभः अधिकः भवेत्।

सामूहिक्यां योजनायां भागग्रहणेन सह सर्वः संस्कृतानुरागी स्वप्रयत्नेन अपि बहूनि कार्याणि कर्तुं शक्नोति। संस्कृतं 1)सरलम् 2)भाषितं भाष्यमाणं च 3)अध्येतव्यम् इति भावजागरणाय अनुभूतिकारणाय च यद् यद् उपयुक्तं स्यात् तत् सर्वं सामाजिकमाध्यमानां द्वारा अस्माभिः प्रसारणीयम्। तादृशसामग्र्याः निर्माणे प्रसारणे च भवान् अन्येषाम् अपि साहाय्यं कर्तुं शक्नोति। सामाजिकमाध्यमेषु इतरभाषाभिः किं किं भवतीति भवान् पश्यति चेत् तेषु उत्तमस्तरीयं संस्कृते अपि कथं कर्तुं शक्येत इति चिन्तयितुं शक्नोति।

जालपुटेषु तथा च यूट्यूब् मध्ये विविधसामग्रीणाम् आरोपणं कृत्वा पश्चात् तासां लिङ्क् सूचनपूर्वकः ट्विटर्, फेस्बुक्, वाट्स्आप्, इन्स्टाग्राम् इत्यादीनां सामाजिकमाध्यमानां द्वारा प्रसारः इति एकः कल्पः। अपरः कल्पः साक्षात् सामाजिकमाध्यमानां द्वारा प्रसारः इति। किञ्च यथा विचारप्रचारः क्रियेत तथा तेन सहैव छात्रसङ्ग्रहाय अपि प्रयत्नः भवितुम् अर्हति यतः सर्वम् अपि कार्यं फलान्तं भवेत् खलु।

संस्कृतप्रचाराय सामाजिकमाध्यमानाम् उपयोगः कथं करणीयः इति विषये प्रत्येकं संस्था संघटनं वा स्वस्य कार्यकर्तॄन् प्रशिक्षयेत्, विश्वविद्यालयाः स्वेषां प्राध्यापकान् छात्रान् च प्रशिक्षयेयुः संस्कृतसप्ताहस्य प्रचाराभियानस्य एतेन निमित्तेन। तज्ञाः प्रशिक्षकाः अपि सर्वत्र लभ्यन्ते। एवम् एषः कश्चन उत्तमः अवसरः। सर्वे एतस्मिन् कार्ये योजनीयाः। सर्वः संस्कृतज्ञः सामाजिकमाध्यमानाम् उपयोगे कौशलं प्राप्नोति चेत् तद् कौशलम् आगामिनि डिजिटल् काले अस्माकं लक्ष्यसाधने महते उपयोगाय भविष्यति।

अहं ट्विटर् माध्यमेन एतस्मिन् विषये अग्रे पक्षं यावत् यथासमयं भवद्भ्यः कार्योपयान् सूचयन् भविष्यामि। मम ट्विटर् अभिधानं भवति @ChamuKShastry इति। तस्य Follow क्रियताम्। यदि भवतः “ट्विटर् अकौण्ट” नास्ति तर्हि तस्य उद्घाटनं वरम्।

संस्कृतशिक्षकाः, प्राध्यापकाः, छात्राः, संस्कृतभारत्यादीनां विविधसंस्थासङ्घटनानां कार्यकर्तारः, तेषां छात्राः, संस्कृतानुरागिणः इति अस्मदीयानां सङ्ख्या बहुलक्षपरिमिता अस्ति। चिन्त्यतां यत् वयं लक्षाधिकाः जनाः सप्ताहं यावत् प्रतिदिनं बहूनि प्रसार्याणि(posts) सामाजिकमाध्यमेषु स्थापयन्तः भवेम इति। तदा कीदृशः कश्चन अद्भुतः परिणामः भवेत् इति। अनया पद्धत्या एव समाजमानसस्य राष्ट्रचेतनायाः च भावजागरणं करणीयं भवेत्। तद् महत् कार्यम् असाध्यं नास्ति यदि वयं सर्वे “साध्यम्” इति चिन्तयेम। सप्तदिनानि यावत् प्रचाररथं चालयितुं पूर्वसज्जता सामग्र्याः निर्माणं सङ्ग्रहः वा महान् करणीयः भवेत्। अद्य एव इदानीम् एव आरम्भः भवतु भोः।