OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 24, 2020

 यू एस् राष्ट्पतिनिर्वाचनं - अन्तिमसंवादः परिनिष्ठया समाप्तः। 

     वाषिङ्टण् > सीमालङ्घने स्वनग्राही निश्शब्दः भविष्यतीत्यादीनां  नियन्त्रणानां  गुणफलमभवत्। यू एस् राष्ट्रपतिनिर्वाचनात् पूर्वं प्रचलितायां राजनैतिकसंवादपरम्परायां अन्तिमसंवादस्य  समङ्गलपरिसमाप्तिः। गुरुवासरस्य निशीथिन्यां 'नाष्विल्' इत्यत्र सम्पन्ने संवादे 'रिप्पब्लिक्कन् पार्टी' स्थानाशी डोणाल्ड् ट्रम्पः 'डमोक्राटिक् पार्टी' स्थानाशी जो बैडन् च कोविड्, पर्यावरणव्यतियानं, वंशीयता इत्यादिषु प्रकरणेषु स्वकीयमतानि उपस्थापितवन्तौ। 

      सार्धहोराकालं दीर्घितः संवादः क्रिस्टिन् वेल्कर् नामिकया दृश्यमाध्यमप्रवर्तकया नियन्त्रितः। 'एन् बी सी न्यूस्' इत्यस्य लेखिका तथा अवतारिका च वेल्कल्   संवादनियन्त्रणविषये प्रशंसां प्राप्तवती।