OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 25, 2020

 आगामिसंवत्सरे शतकोटिमात्राः कोविड्वाक्सिनः। 

    पूणे> कोविड्वाक्सिनौषधस्य १०० कोटिमात्राः आगामिसंवत्सरे सज्जीकरिष्यति। सिरम् इन्टिट्यूट् आफ् इन्डिया इत्यस्य अधिकारी अदार् पूनावाला इत्यसौ अभिमानं कृतवान्। वर्तमानं परीक्षणसोपानं प्रविष्टानां पञ्च वाक्सिनानां १०० कोटिसंख्याकाः मात्रा एव २०२० -२१ आर्थिकसंवत्सरे लभ्यं कर्तुमुद्दिष्टाः इति सः वार्ताहरान् प्रति उक्तवान्। 

  आस्ट्र सेनक्का नामिकया ब्रिटीशसंस्थया सह ओक्स् फेड् विश्वविद्यालयेन विकसितं 'कोविषील्ड्' इत्यौषधं विना 'कोवोवाक्स्', 'कोविवाक्स्', 'कोवि वाक्', 'एस् ऐ ऐ कोवाक्स्' इत्येतानि औषधानि संस्थया उत्पाद्यन्ते। सम्प्रति तृतीयसोपान-क्लिनिक्कल् परीक्षणेषु पुरोगम्यमाने 'कोविषील्ड् वाक्सिने' आरभ्य आगामिजनवरिमासात् त्रैमासिकं एकैकं वाक्सिनौषधं बहिर्गमयितुमेव संस्थया लक्ष्यीक्रियते।