OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 31, 2020

 भविष्यनिधिनिषेधः - केरले भाषाध्यापकाः प्रतिषेधान्दोलने।

  कोच्ची> केरले दशाब्दैः विद्यालयीयशिक्षकेषु कश्चनविभागः  भविष्यनिधिनिषेधेन पीड्यते।  संस्कृतम्, अरबी, उर्दु, हिन्दी विभागेषु Part-time रूपेण नियुक्तानां  अध्यापकानां कृते २०१२ तम संवत्सरादारभ्य भविष्यनिधि आनुकूल्यः [Provident Fund] निषिद्धः। केषाञ्चन कृते २००२ आरभ्य एव आनुकूल्योयं निषिद्ध आसीत्। संवत्सरैः तत्तत्कालीनशासकानां पुरतः निवेदनेषु समर्पितेषु निष्प्रयोजनमभवदिति कारणतः 'केरलसंस्कृताध्यपकफेडरेषन्' [KSTF(D&P)] इत्यस्य संघटनस्य नेतृत्वे गतदिने प्रत्यक्षान्दोलनकार्यक्रमाः आरब्धाः। 

  प्रथमसोपानेन 'ओण् लैन्' प्रक्षोभः समारब्धः। राज्यस्य १४० विधानसभासामाजिकानां समक्षं आवेदनानि समर्पितानीति संघटनस्य मुख्यकार्यदर्शी सि पि सनलचन्द्रः अवोचत्। 

  सर्वकारस्य वित्त-शैक्षिकमन्त्रालययोः कूर्मगमनमेव अस्मिन् विषये काल विलम्बस्य मुख्यहेतुरिति संघटनस्य प्रधानकार्यदर्शिना पि जि अजितप्रसादेन उक्तम्। 

 वाट्सप्, फेस् बुक् , ट्विटरादि नवमाध्यमद्वारैः यावच्छक्यं प्रतिषेधप्रकाशनं कृत्वा निष्फलं चेदपि कोविड्परिनिष्ठां परिपाल्य आन्दोलनस्य आगामिसोपानानि आरप्स्यन्ते इति संघटनानेतृत्वेन निगदितम्।