OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 8, 2021

निश्शुल्कवाक्सिनं दास्यति- नीतिमार्गं परिवर्त्य केन्द्रशासनम्। 

 नवदिल्ली> कोविड्वाक्सिनस्य प्रदाननीतिमार्गे सुप्रधानं परिवर्तनं केन्द्रप्रशासनेन आयोजितम्। १८ वयोपर्युक्तानां कृते अस्य मासस्य २१ दिनाङ्कादारभ्य निश्शुल्केन वाक्सिनं दास्यतीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। कोविड्व्यापनानन्तरं विधत्ते नवमे राष्ट्राभिसम्बोधने आसीत् प्रधानमन्त्रिणः इदमुद्घोषणम्। 

  राष्ट्रे उत्पाद्यमानानि ७५% वाक्सिनानि केन्द्रप्रशासनं साक्षात्संभृत्य राज्येभ्यः वितरिष्यति। अवशिष्टानि २५% वाक्सिनानि निजीयातुरालयैः  क्रेतुम् शक्यन्ते। एतदर्थं राज्यसर्वकाराणां निरीक्षणं नियन्त्रणं चावश्यकम्।