OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 12, 2021

 राष्ट्रस्तरे ऐ सि एम् आर् संस्था 'शून्यसमीक्षणं' विधास्यति। 

  नवदिल्ली> कोविड् व्यापनं भारते आकुञ्चतीति गतसप्ताहस्य अवस्थावृत्तान्तानालक्ष्य स्वास्थ्यमन्त्रालयेन निगदितम्। एप्रिल् ३०तः आरभ्य मेय् ६ पर्यन्तं वर्तिते सप्ताहे रोगस्पष्टतामानं [TPR] २१.६% इत्येतत् अधुना ५.१४% प्रति सप्ताहं इति आकुञ्चितम्। गतदिने ९१,७०२ नूतनानि कोविड्प्रकरणानि आवेदितानि। अनुस्यूततया चतुर्थं दिनं भवति यत्र प्रतिदिनरोगिणां संख्या ऊनलक्षं वर्तते। 

   रोगव्यापनं कियन्मात्रमभवदिति निर्णेतुं ऐ सि एम् आर् संस्थया देशीयस्तरे 'शून्यसमीक्षणं' चालयिष्यते इति नीति आयोगस्य सदस्यः डो. वि के पोल् उक्तवान्। राज्येष्वपि जनपद-प्रादेशिकस्तरेषु ईदृशं समीक्षणं करणीयम् - डो. पोल् वर्यः प्रावोचत्।