OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 24, 2015

मंगलयानं दौत्यमनुवर्तिष्यते

बङ्गलुरु -बहिराकाशगवेषणे भारतस्य अभिमानतारकं मंगलयानं बहुकालं प्रवर्तननिरतं भविष्यति इति गवेषकाः। कुजग्रहस्य भ्रमणपथे मंगलयानपेटकं वर्षमेकं पूर्तीकुर्वत् अस्ति। इतःपरं ३५किलो. इन्धनमव-शिष्यते इति आह्लादं प्रददाति।


 मोदी अयर्लान्डदेशं प्राप्तः

h
छात्राः संस्कृतगीतानि गायन्ति 

h
डब्लिन्- भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः द्विराष्ट्रसन्दर्शनं प्रारब्धम्।ह्यः सः अयर्लान्डं प्राप्तः।तत्रस्थः आरोग्यमन्त्री लियो वराद्करः डब्लिन् विमानपत्तने मोदिनं परम्परागतरीत्या स्वीकृतवान् उभयराष्ट्रसंबऩ्धिनः बहवः विषयाः चर्चीकृताः । परस्परं सम्मानितवन्तौ च।मोदी तु ऐरिष् क्रिकट्दलस्य मोदी इत्यालिखितेन दलवस्त्रेण सम्मानितः।

तद्देशनिर्वाचनं नवम्बर मासे

कोच्ची- केरलराज्ये तद्देशस्थापनेषु निर्वाचनं नवम्बरमासस्य द्वितीयवारा- भ्यन्तरे पूर्तीकरिष्यति इति राज्यनिर्वाचनकम्मीषन् इत्यनेन उच्चन्यायालये सत्यवाङ्मूलं प्रदत्तम्। ओक्टोबर् १० दिनाङ्कात्पूर्वं विज्ञापनंभविष्यति। फलप्रख्यापनं नवंबर.१५ तमे दिनाङ्के करिष्यति।


'अमृतकीर्ति' पुरस्कारेण मुतुकुलं श्रीधरकविराजः सम्मानितः।

कोच्चि - २०१५ वर्षस्य अमृतकीर्ति पुरस्कारेण संस्कृतपण्डितः मुतुकुळं श्रीधरः सम्मानितः।
संस्कृत भाषायै क्रियमाणं समस्तं योगदानम् पुरस्कृत्य एव अयम् आदर:। 123456 स्प्यकाणि सरस्वत्याः शिल्पं , प्रशस्तिपत्रं च पुरस्कारे अन्तर्भूतानि

 
   भारतीयविचारकेन्द्रस्य निदेशक: पि. परमेश्वरः, श्री शङ्कराचार्य विश्वविद्यालय स्य भूतपूर्व उप कुलपति : डा. एन्‌ पि उण्णि:, कवि: पि नारायणक्कुरुप्प् , डा. शङ्‌कर् अभयङ्कर् , प्रतिभा राय्, स्वामी अमृतस्वरूपानन्द:, स्वामी तुरीयानन्द: इत्यादयः  विद्वांस: मिलित्वा पुरस्कारनिर्णयमकुर्वन् ।


  आगामिनि  रविवासरे आधुष्यमाणे मातुः अमृतानन्दमय्या: जन्मदिनोत्सवे पुरस्कारसमर्पणं भविष्यति।
   संस्कृतभाषायै अर्पितमनस्क: अयं कावि:संस्कृत भाषातः कैरल्यां अनेकान्  ग्रन्थान् विवर्तनमकरोत्
श्रीनारायणचरितामृतम्, श्रीविद्याधिराजचरितामृतम् , पञ्चमहाकाव्यानि च अनुवाचक हृदयेषु एवं चिरप्रिष्ठिताः ।
१९७६ तमे वर्षे नवभारतं नाम प्रथमग्रन्थः प्रकाशितः
अनन्तरं विद्याधिराजविजयं, नायकाभरणं, अश्रुपूजा, धर्मस्थलीयं च प्रकाशितेषु ग्रन्थेषु प्रसिद्धाःजाताः।

प्रधानमंत्री पञ्चदिवसीयामेरिकायात्रर्थं न्यूयार्कनगरं सम्प्राप्तः
यदि गृहे शौचालयं नास्ति तर्हि निर्वाचनेषु प्रत्याशित्वं नैव – नित्यायोगः