OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 20, 2015

सर्वकारीयवृद्धालयेषु  ''वयो अमृतम्'' योजना अनुवर्तते ।

अनन्तपुरी- केरलराज्ये सर्वकारीयवृद्धालयेषु अन्तेवासिनां क्षेमाय कियमाणः आयुर्वेदपरिचर्या भवति "वयो अमृतम्'' । सामूह्यक्षेम-भारतीयचिकित्साविभागौ अस्याः योजनायाः कार्यकर्तारौ। प्रथमश्रेण्यां ५२ लक्षं रूप्यकाणि उपयुक्तानि । अधुना ५० लक्षं रूप्यकाणि योजनाम् अनुवर्तयितुम् सञ्चितानि । मधुमेह : रक्तातिमर्दः वातविकारः पक्षाघात : मनसम्मर्द : इत्यादीनां रोगाणां कृते सफलां  आयुर्वेदचिकित्साम् उद्दिशति योजनेयम् ।