OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 29, 2015



संस्कृत दिनाघोषः संपूर्णः

संस्कृतं नित्यजीवनस्य भागः भवितव्यः केरल सचिवः
कोट्टयम् - संस्कृत भाषा नित्य जीवनस्य भागः भवेत् इति केरल राज्यस्य वनं - गतागत विभागस्य मन्त्री तिरुवञ्चूर राधाकृष्णः अवदत्। केरल राज्यस्य ७ तम: संस्कृतदिनाघोषस्य उद्घाटनं कुर्वन्नासीत् सः। नित्यजीवने संस्कृत भाषाया: आगमनेन जनानां उन्नति: शीघ्रमेव भविष्यति। इदानीं केरले एव प्रथम कक्ष्यायाः आरभ्य द्वादश पर्यन्तं ऐच्छिक रूपेण भाषा पठनाय अवसर: इतर भाषाणां माता संस्कृतम् इत्यस्मात्‌ इयं भाषा भारतस्य अभिमानमेव। लोके विद्यमानानां सर्वेषां ज्ञानानां प्रभवकेन्द्रम्  संस्कृत भाषा एव। अतः संस्कृत भाषायाः महत्वं प्रत्यभिज्ञातव्यम् । भारतस्य अभ्युन्नत्‍यर्थं संस्कृतभाषापठनं सजीवं कर्तुं प्रयत्न: करणीय: इत्यपि सचिव: उक्तवान्

भारते संस्कृत दिनाघोषः