OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 8, 2016

 राज्यस्तरीयकलोत्सवे स्वागतगानरचयिता संस्कृताध्यापिका।

कोच्ची > अनन्तपुरिनगरे जनवरी १९ दिनाङ्कादारभ्य प्रचाल्यमानस्य ५६तम केरलराज्यस्तरीयविद्यालयकलोत्सवस्य स्वागतगानरचनायाः नियोगः संस्कृताध्यपिकायै। कोट्टयं जिल्लायां पाला पूवरणीग्रामस्थे सर्वकारीय प्राथमिकविद्यालये संस्कृताध्यपिका सुप्रसिद्धा युवसाहित्यकारी केन्द्रसाहित्य अक्कादम्याः पुरस्कारजेत्री च  पि.आर्याम्बिका एव कलोत्सवगानरचनायै नियुक्ता।केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः कोट्टयं जिल्लाध्यक्षा भवत्येषा।
अस्य गानस्य संगीत साक्षात्कारं करोति प्रशस्तः हिन्दुस्तानी संगीतज्ञः रमेष् नारायणः।



 अणुपरीक्षणम्-उत्तरकोरियां विरुध्य ओबाम। 

वाषिङ्टण् >   अणुपरीक्षणं कृतम् इति उक्तवताम् उत्तरकोरियां विरुध्य सुशक्तम् प्रतिरोधं भविष्यति इति अमेरिकाराष्ट्रस्य राष्ट्रपतिः बारक् ओबामा अवदत्। तदर्थं  दक्षिणकोरिया जपान् राष्ट्रयोः सहकारितां  संस्थापितवान् च।
उत्तरकोरियाया: प्रवर्तनानि कदापि न अङ्गीकृतानि इति जप्पानस्य प्रधानमन्त्री षिन्से आबे अवदत्। अणुविस्फोटकात् शक्तम् हैड्रजन्  विस्फोटकमेव कोरियाराष्ट्रेण परीक्षितम्।


भरतस्य तेजः विपणीम् अतिक्रम्यते
aeroindia

नवदिल्ली > भारतस्य युद्धविमानं (तेजस् ) बह्रिन् राष्ट्रस्य प्रदर्शनमेलायां प्रति गच्छति। जानुवरी मासस्य 21 दिनाङ्कत: 23 पर्यन्तं सक्कीर् एयर् बेस् मध्ये प्रदर्शनम् आयोजितम्। लोक विपणीम् उद्दिश्य एव अस्य प्रदर्शनम्।