OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 27, 2016

बृहत्तर: सौरयूथः दृष्टः। 

new-planetकालिफ़ोर्णिया> मातृनक्षत्रात् लक्षं कोटि किलोमीट्टर् दूरे भ्रमन्तं ग्रहं ज्योतिशास्त्रज्ञैः दृष्टः। एतावत्कालपर्यन्तं प्रत्यभिज्ञातेषु बृहत् आकारको सौरयूथो भवत्ययमिति गवेषकाः वदन्ति। ग्रहस्य एकवारं मातृनक्षत्रपरिक्रमणाय नवलक्षवर्षाणि अवश्यकानि। सूर्यस्य भूमेः च मध्ये १५ कोटि किलोमीट्टर मितिः अस्ति। १५ कोटि किलो मीट्टर् एकं अस्ट्रोणमिक् मीट्टर् इति (AU). सौरयूथे सूर्यस्य नेप्टूणस्य  मध्ये 30 अस्ट्रोणमिक् मीट्टर् (AU) भवति । नूतनग्रहं तु सूर्यात् ६०० - १२०० AU भवति। 

पाक् तालिबान् नेता मुल्ला फसलूल्ला हतः। 

इस्लामबाद् > पाक् तालिबान् नेता मुल्ला फसलूल्ला हतः इति पक्किस्तास्थानस्थाः माध्यमाः। अफ्गानिस्थन् देशे यु.एस्. अफ्गान् सैन्ययोः संयुक्त ड्रोण् आक्रमणे फसलूल्ला हतः इति माध्यमवृत्तान्तः। तस्य गृहाऽभिमुखं प्रति कृतवता आक्रमणे पत्नी पुत्रः च हतवन्तौ। पाक्किस्थाने पेषवार् सैनिकविद्यालयस्य बच्चा खान् महाविद्यालयस्य च आक्रमणं पाक् तलिबानेन कृतम् आसीत्।