OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 17, 2016

आधारपत्रिका लोकसभायां पुनरपि अङ्गीकृता।

नव दिल्ली > विपक्षदलीयानां कोलाहलानां मध्ये आधारपत्रिका लोकसभायां शासकीयदलेन पुनरपि अङ्गीकृता। राज्यसभया निर्दिष्ठाः भेदनिर्देशाः निर्वाचनेन निवार्य एव आसीत् नूतनपत्रिकायाः अङ्गीकारः । विपक्षिदलानां प्रतिषेधान् विगणयन्नेव आसीदियं  प्रक्रिया । आधारः निर्बन्धितरूपेण मा भवतु इति सर्वोच्चन्यायालयेन पूर्वम् अनुशासितः आसीत् ।

पञ्चशत औषधानपि केन्द्रसर्वकारैः निरोधितः।

नवदिल्ली> सुरक्षाभावात् गुणाभावात् च पञ्चशताधिकानि औषधानि आपणेषु निरोधितानि। केषाञ्चन प्रतिरोधौषधानि मधुमेहस्यौषधानि च तेषु अन्तर्भवन्ति। विपणिषु सुरक्षितौषधानां प्राप्त्यर्थं केन्द्रसर्वकारैः क्रियमाणस्य प्रयत्नस्य फलादेव औषधनिरोधनमिति आरोग्यमन्द्रालयेन सूच्यते। ६००० औषधानां परिशोधना अधुना प्रचलन्नस्ति । तेषु सहस्राणां औषधानां मिश्रणे अशास्त्रीयवस्तूनां प्रयोगः दृष्टः इत्यस्मादेव परीशोधना सर्वकारैः दृढीकृता।

पेट्रोल् डीसल् मूल्यवर्धनम्। 

नवदिल्ली - पेट्रोल् डीसल् इन्धनयोः मूल्यं तैलसंस्थाभिः क्रमातीतया वर्धितम् । पेट्रोल् तैलस्य ३.०७ रूप्यकाणि डीसल् तैलस्य १.९० रूप्यकाणि च संवर्धितानि । अन्ताराष्ट्रियतैलमूल्यं इदानीं नितरां न्यूनमपि भारतीयतैलसंस्थानां अयं क्रियाविधिः प्रतिषेधाय कारणमभवत्।

 मैसूरु वायुमलिनीकरणं न्यूनीकृतं चतुर्थं नगरम् ।

मैसूरु - वायुमलिनीकरणं न्यूनातिन्यूनतमेषु आगोलनगरेषु मैसूरुनगरस्य चतुर्थं स्थानमस्ति। इन्ड्याटैम्स् . कोम् इत्यनया अन्तर्जालिकया कृते पठने एव इयं सूचना। ८४.०९ % भवति अत्रत्यः शुद्धवायोः मानम्। प्रथमदशनगरेषां पट्टिकायां केरलस्य कोल्लं नगरमपि अन्तर्भवति। ७९.१७ %अस्ति अत्र शुद्धवायोः मानम्। पट्टिकायां प्रथमस्थानमावहति कानडा राष्ट्रस्य वैट् होर्स् नगरम्। अत्र  १००% शुद्धवायुरस्ति ।