OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 18, 2016

 आकाशवाण्याः "संस्कृत-सौरभम्"

आचार्येण हरिदत्त-शर्मणा साकं डो.बलदेवानन्द-सागरः 
नवदिल्ली > "भारतस्य महामहिमशालिना राष्ट्रपतिना प्रमाण-पत्रप्रदानेन  सभाजितेषु संस्कृत-विद्वत्सु अन्यतमेन आचार्येण हरिदत्त-शर्मणा साकं "संस्कृत-सौरभम्"-इति आकाशवाण्याः कार्यक्रमार्थं साक्षात्सम्भाषणं ध्वन्यङ्कितम्| अवसरेsस्मिन् कार्यक्रम-सञ्चालकेन डो.बलदेवानन्द-सागरेण पृष्टः आचार्य-शर्मा स्वीयान् नाना अध्यापनानुभवान् विवर्णयन् स्वीय-वैदेशिक-यात्राविषयेsपि विस्तरेण सूचितवान्| तेनोक्तं यत् संस्कृत-शिक्षणार्थं तेन नैकवारं अनेकेषां देशानां यात्रा विहिता| तदवसरे तेन अनुभूतं यत् अनेकेषु देशेषु प्रतिष्ठापितैः संस्कृत-पीठैः संस्कृत-विषयकं बहुविधं शोधकार्यम् अनुष्ठीयते| प्रो.शेल्डोन-पोलोक-विषये पृष्टः डो.शर्मा न्यगादीत् यत् अमुना वैदेशिक-विदुषा नैकत्र संस्कृत-ज्ञानस्य वैदिक-मनीषायाश्च विद्रूपीकरणं विहितम्| तच्च नैवास्ति समीचीनम्| भारतीयैः विद्वद्भिः स्वीय-रचनात्मक-प्रतिभया तत् सर्वं सम्यक्तया सम्पादनीयमवशिष्यते | साक्षात्कार-सम्भाषणावसरे आचार्य-शर्मणा स्वीय-काव्यपाठेन सहृदयानां परितोषार्थं काव्यरस-परिवेषणम् अनुष्ठितम्| प्रतिमासं द्विवारं [ प्रथमे तृतीये च शनिवासरे ] रात्रौ सार्धनववादने आकाशवाण्याः इन्द्रप्रस्थ-वाहिनीतः  [ 666 KHz-तः ] प्रसार्यमाणोऽयं कार्यक्रमः एप्रिल-मासे द्वितीय-दिनाङ्के [ शनिवासरे ] श्रोतुं शक्यते|

अरबी अध्यापने २९ संवत्सराणि; गोपालिका अन्तर्जनं निवर्तते।

मलप्पुरं - २९ संवत्सराणि बालकानां कृते अरबिभाषायाः माधुर्यं प्रसारितवती गोपालिका अन्तर्जनं तस्याः कर्ममण्डलात् विरमति। केरलेभ्यः ब्राह्मणसमुदायगता प्रथमा अरबी अध्यापिका इति ख्यातिर्भवति गोपालिकावर्यायाः।
१९८२तमे वर्षे मलप्पुरं जिल्लायां पाण्टिक्काट् प्रदेशे कस्मिंश्चित् वैयक्तिकविद्यालये आसीत् प्रथमनियुक्तिः । किन्तु ब्राह्मणवनितायाः अरबि अध्यापनमसहमानानां धर्मान्धानां प्रतिषेधात्  तत्रत्या केवलं षड्दिवसीया अध्यापकवृत्तिः समाप्ता । किन्तु पराजेतुमसन्नद्धा सा न्यायालये परिदेवनं दत्वा अनुकूलविधिं सम्पाद्य पि एस् सि द्वारा १९८९ तमे वर्षे तिरुवालि सर्वकारीयनीचविद्यालये नियुक्तिं प्राप्तवती । तत्र १० संवत्सराणां सेवनानन्तरं मेलाट्टूर् उपजिल्लायां चेम्माणियोट् सर्वकारीयविद्यालयं प्राप्य १७ संवत्सराणि अतीतानि। ततः एव इदानीं सेवानिवृत्तिः।
 बाल्ये समीपस्थं  समान्तरविद्यालयं गत्वा अरब्भाषां पठितुं तात्पर्यं प्रकटितवत्यै गोपालिकायै पितरौ  अनुमतिं दत्तवन्तौ ।तदेव तस्याः जीवने मार्गपरिवर्तनमभवत् । १९९३ तमे वर्षे प्रकाशितं नारायम् इति चलच्चित्रं गोपालिका अन्तर्जनस्य अध्यापनजीवनं पुरस्कृत्य आसीत् ।

ऐ.एस्.बन्धम्, एन् .ऐ.ऐ.द्वारा २५ जनाः वन्धिताः

नवदिल्ली > ऐ.एस् आदङ्गवादिभिः साकं सम्पर्कः वर्तते इति संशयत्वात् २५ जनान् देशीय अन्वेषण उद्योगस्थैः वन्धिताः इति केन्द्रसर्वकारैः सूचिताः। भारतराष्ट्रात् ऐ.एस्.प्रति बहुन्यूनाः एव आकृष्टन्ते इत्यपि सर्वकारैर्सूचितम्। ऎ.एस्.संस्थायाः केषाञ्चन सजीवप्रवर्तकान् आरक्षकैः बन्धिताः इत्यपि केन्द्र आभ्यन्तरसहमन्त्रिणा हरिभाय् चौदर्या सूचितम्।

मस्तिष्कभोजी अमीबा - एकः बालः मृतः।

कोच्ची - मस्तिष्के अमीबा इति एककोशजीविनः प्रवेशेन गुरुतरावस्थां प्राप्तः बालः मरणम् उपगतः । आलप्पुष़ा जिल्लायां तिरुमला उम्माप्परम्प् गृहे नवासस्य पुत्रः अक्बरः (१६) एव मृतः । 
मित्रैः सह तटाके स्नानं कुर्वति एव अक्बरस्य मस्तिष्कं प्रति अमीबाप्रवेशनं जातम् । असह्यमानया शिरोवेदनया आलप्पुष़ा मेडिक्कल् कोलज् आतुरालये अनन्तरम् आस्टर् मेडिसिटी इति वैयक्तिकातुरालये च प्रविष्टः चेदपि मृत्युरभवत् ।
नग्लेरिया फौलेरी इत्याख्या अमीबा नासाद्वारेणैव मस्तिष्कं प्रविष्टा। शरीरे प्रविष्टे रोगाणुनाशनं दुस्साध्यमिति अभिज्ञाः वदन्ति ।

मल्यावर्यस्य किङ्फिषर् हौस् मन्दिरस्य सघोषविक्रयः पराजितः।

मुम्बई >  प्रवर्तनरहितायाः किङ्फिषर् एयर् लैन्स् संस्थायाः आस्थानमन्दिरं सघोषविक्रयेण विक्रेतुं बाङ्कसंघस्य प्रयत्नः पराजितः । गतदिने सम्पन्ने इलक्ट्रोणिक् सघोषविक्रये  यस्य कस्यापि भागभागित्वं नाभवत् । राष्ट्रात् पलायितेन मदिराव्यापारिणा विजयमल्ल्येन विविधवित्तकोशेभ्यः प्रतिदीयमानानि ऋणानि प्रत्याहर्तुमेव तस्य स्थावरद्रव्यानि सघोषविक्रयणाय एवं उद्यमः आरब्धः।