OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 25, 2016

 दिनषष्ठ्‌यभ्यन्तरेणैव जनानां परिदेवनानि परिहर्तव्यानि- प्रधानमन्त्री

नवदिल्ली > सर्वकारस्य विविधविभागेभ्यः जनेभ्यः च लभ्यमानानि सेवनानि अधिकृत्य परिदेवनानि विद्यते चेत् षष्ठिदिनाभ्यन्तरेण परिहरणीयानि इति प्रधानमन्त्री नरेन्द्रमोदि वर्यः आदिष्टवान्। उन्नतोद्योगिभिः सह वीडियो कोण्फरन्सिङ् द्वारा कृते मेलने अयं निदेशः दत्तः। जनानां परिदेवनानि परिहर्तुं उद्योगिनः न तत्पराः इति विमर्शाः अजायन्त। सन्दर्भे अस्मिन् एतादृश निदेशः अजायत इत्यनेन जनानाम् आश्वासः।
प्रधानमन्त्रिणः प्रगतिः नाम अन्तर्जाल-परिदेवन-पञ्चीकरण द्वारा  लभ्यमानानि सेवनानि अधिकृत्य लक्षाधिकानां परिदेवनानां परिहाराः , विना विलम्बं कर्तुम् इदानीम् उद्योगिनः निर्बद्धाः भवेयुः।

विनयस्य परसेवनस्य च सन्देशेन " पेसहा " आघुष्टा; अद्य विशुद्धशुक्रवासरः।

कोच्ची >विनयस्य साहोदर्यस्य सहिष्णुतायाः च सन्देशं प्रचार्य आभुवनं क्रैस्तवदेवालयेषु पेसहाचरणं सम्पन्नम् । मर्दितानां पीडितानां कृते स्वजीवत्यागस्य पूर्वस्मिन् दिने येशुदेवेन कृतं शिष्यपादप्रक्षालनं स्मारयित्वा सर्वेषु देवालयेषु पेसहाश्रेष्ठकर्माणि आचरितानि ।
परस्परप्रेम्णा निस्स्वार्थसेवनेन साहोदर्यभावनया च धर्माणां राष्ट्राणां भाषाणां च आधारे वर्तमानाः भिन्नताः अतिक्रमान् च दूरीकर्तुं शक्यते इति वैदिकश्रेठाः उद्बोधितवन्तः ।
मार्पापावर्यस्य नूतननियुक्त्यनुसारं वनितानां पादप्रक्षालनाचरणमपि विविधदेवालयेषु सम्पन्नम् । अद्य येशुदेवस्य क्रूशितमृत्युं स्मरन् देवालयेषु प्रार्थनाभरितकार्यक्रमाः प्रचलन्ति ।

योहान् क्रैफ् निर्यातः ।

बार्सलोण >होलण्ट राष्ट्रस्य पादकन्दुकक्रीडेतिहासः योहान् क्रैफ् (68) निर्यातः । अर्बुदरोगबाधिते तस्मिन्  चिकित्सिते स्पेयिन्   राष्ट्रे बार्सलोणायामेव तस्यान्त्यः।
महान् क्रीडकः श्रेष्ठः परिशीलकः च क्रैफ्वर्यः सम्पूर्णपादकन्दुकक्रीडा (total football) इति विप्लवात्मकक्रीडायाः उपज्ञाता भवति ।
क्रीडाङ्कणे प्रतिभासम्पन्नः घोरपादताटकः (striker)  अप्रतिरोध्यः मध्यक्षेत्रीयः(midfielder) इति क्रीडाङ्कणे विराजितः सः त्रिवारं लोकपादकन्दुकक्रीडकः इति किरीटं लब्धवान् ।