OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 3, 2016


 कार्षिक - ग्रामीण आधारमण्डलेभ्यः आयव्ययपत्रकम्

 नवदिल्ली> कार्षिक ग्रामीणमण्डलेषु आधारविकासाय प्राधान्यं दीयमानं भारतस्य आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जय्ट् ली वर्येण लोकसभायाम् अवतारितम्। कार्षिकमण्डलस्य प्रगत्यर्थं कर्षकक्षेमाय च गतवर्षमपेक्ष्य द्विगुणितभागः विहितः। पञ्चसंवत्सरैः कृषकानाम् आयं द्विगुणीकर्तुम् आयव्ययपत्रके विभावनमस्ति। किन्तु सामान्यानां करदायकानाम् आश्वासः न लभते । आयकरस्य अनुपाते अपहारे च परिष्करणं प्रतीक्षितं चेदपि नाभवत्।

केरले कण्णूर् विमाननिलये परीक्षण उड्डयनं संवृत्तम्।

कण्णूर् > केरले कण्णूर् अन्ताराष्ट्र विमाननिलये  प्रथमं परीक्षण उड्डयनं सम्पन्नम्। व्योमसेनायाः डोणियर् द्वे द्वे अष्ट इति विमानं उड्डयन परीक्षणमकरोत् । यात्राविमानं सप्तंबर् मासे कण्णूर् निलये अवतरिष्यति इति सम्मेलनम् उद्घाटनं कुर्वन् मुख्यमन्त्री उम्मन् चाण्टी अवदत्।

तेलङ्कानसीमायां ८ मावोवादिनः हताः।

हैदराबाद् - तेलङ्कान- छत्तीस्गड् सीमायां वनप्रदेशे ८ मावोवादिनः सविशेषदौत्यसेनया गोलिकाशस्त्रेण हताः । निहतेषु ५ महिला अन्तर्भवन्ति। तेलङ्कानायां खम्मं जिल्लासमीपं चिन्तवाड कानने एव इयं घटना ।
कानने मावोवादिनः सम्मिलन्तीति गुप्तसूचनामनुसृत्य आरक्षकविभागस्य ग्रेहण्ट् नामिका मावोविरुद्धसेना काननं प्राप्य संघट्टनम् अकरोत्।

 कनय्याकुमारस्य प्रतिभूतिः लब्धा।

नवदिल्ली - देशद्रोहारोपणविधेयः जे एम् यू छात्रनेता कनय्यकुमारः दिल्ली उच्चन्यायालयात् षण्मासानां प्रतिभूतिं लब्धवान्।फेब्रुवरि १२ तमदिनाङ्के गृहीतस्य तस्य १९ दिनानन्तरमेव प्रतिभूतिः लब्धः । अन्वेषणसमाप्तिं यावत् देशविरुद्धसदृशप्रवृत्तिषु प्रत्यक्षतया परोक्षतया वा भागभागित्वं न कर्तव्यमिति न्यायालयेन आदिष्टम्।

अफ्गानिस्थाने भारतीय स्थानपति कार्यालयं प्रति आक्रमणं- ६ हताः।

काबूल् - अफ्गानिस्तान् देशस्य जलालाबाद् प्रविश्यायां  भारतस्य स्थानपतिकार्यालयं प्रति संवृत्ते भीकराक्रमणे षट् जनाः निहताः । तेषु चत्वारः भीकराः, ये सुरक्षासेनया हताः ।
स्फोटकवस्तुसंपन्नं कार् यानं स्थानपतिकार्यालयाङ्कणं प्रवेशयितुमुद्यमे स्फोटनं प्रवृत्तमासीत्। कार्यालयस्य वातायनानि द्वाराणि च स्फोटने विशीर्णानि।
मृतेषु एकः रक्षिपुरुषः अपरा तद्देशवासिनी महिला च  भवति ।आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम् ।

 सुमात्रद्वीपे महद्भूचलनं - सूनामी विज्ञप्तिः निराकृता। 

जकार्ता - इन्डोनेष्या राष्ट्रे सुमात्रा द्वीपे रिक्टर् मापिन्यां ७.८ अङ्कितं भूचलनं ह्यः सञ्जातम् । सुनामीजाग्रतानिर्देशः दत्तः अपि परं निराकृतः।
पडाङ् नगरात् ८०८ कि मी दक्षिणपश्चिमपार्श्वे २४ कि मी अगाधे एव भूकम्पनस्य प्रभवकेन्द्रम्। नाशनष्टानि अधिकृत्य सूचनाः व्यक्ततया न लब्धाः ।