OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 28, 2016

पाकिस्ताने भीकराक्रमणं - ६५ मरणानि ।

पाकिस्ताने लाहोरे ह्यः सायं आत्महत्यासन्नद्धेन भीकरेण कृते आक्रमणे ६५ जनाः मारिताः ।२०० परं जनाः आहताः ।मृतेषु भूरिभागः महिलाः बालकाश्च भवन्ति । 
  लाहोरे इक्बाल् नगरमिति प्रमुखे जननिवासमण्डले वर्तमाने गुल्षन् इक्बाल् उद्याने एव आत्महत्याभटः स्वयमेव विस्फोटितः । ईस्टर् दिने ह्यः तत्समये महान् जनसम्मर्द आसीत् । सुरक्षाव्यवस्था अपि न्यूना आसीदित्यपि सूच्यते ।

२०- २० लोकचषकः - भारतम् उपान्त्यपादे ।

मोहाली - आस्ट्रेलियां ६ द्वारकैः पराजित्य भारतं २० - २० लोकचषकक्रिक्कट् स्पर्धायाः उपान्त्यचक्रे स्थानं दृढीकृतम् ।सूपर् १० चक्रस्य निर्णायकमत्सरे आस्ट्रेलियया दत्ता १६१ धावनाङ्काः इति विजयक्ष्यः पञ्चकन्दुकेषु अवशिष्टेषु ४ कन्दुकताडकानां नष्टे भारतेन प्राप्तः । 
विराटकोलिः भवति श्रेष्ठक्रीडकः । सः ५१ कन्दुकेभ्यः षड्कद्वयेन नवचतुष्कैश्च साकं ८२ धावनाङ्कान् प्राप्य अबाह्यः अभवत् ।

वैदिकः ऐ एस् भीकरैः अपहृतः ; मोचयितुं प्रयत्नः आरब्धः ।
नवदिल्ली - यमन् राष्ट्रे केरलीयः क्रिस्तीयपुरोहितः , फा. टोम् उष़ुन्नाल् नामकः ऐ एस् भीकरैः मार्च् ४ दिनाङ्के अपहृतः । यमन् राष्ट्रे मिषणरीस् आफ् चारिटि इति संस्थया प्रचाल्यमाने  अशरणानां केन्द्रे कृते भीकराक्रमणे भारतीयाः चतस्रः कन्यास्त्रीसहिताः १६ जनाः मारयन्ति स्म ।तस्यां वेलायामेव फा. टोमः अपहृतः ।
घटनायां ऐ एस् संघटनस्य उत्तरदायित्वं गतदिने एव केन्द्रसर्वकारेण प्रकाशितम् ।तस्य मोचनाय सर्वथा प्रयत्नः आरब्ध इति विदेशकार्यमन्त्रिण्या सुषमा स्वराजेन उक्तम् । परन्तु तस्य मोचनाय भीकरैः मोचनद्रव्यम् अभियाचितमिति वार्ता बहिरागता ।