OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 24, 2016

प्राणिनं जीवरक्षायै जयपुरे 'मार्गदाबा' च


जयपुरम् > वीथी शालायां अधुना आरभ्य आपत् कालचिकित्सा। राजस्थान सर्वकारस्य नूतना पद्धतिरियम्। मार्गेषु यानदुर्घटनायां पतितेभ्यः प्रथमशुश्रूषां औषधं च जवेन दत्वा जीवरक्षां कर्तुम्  अनया पद्धत्या उद्दिश्यते । तदर्थं वीथीप्रान्तभक्ष्यशालाभ्यः कर्मकरेभ्यः  प्रथमं परिशीलनं दास्यते। राष्ट्रियवीथिषु राज्यस्तरीय वीथिषु च योजना आयोजयिष्ते इति स्वास्थ्य मन्त्रिणा राजेन्द्र रात्तोडेन विधानसभायां उक्तम्।

एस् एस् एल् सी परीक्षा समाप्ता; छात्राणां मुक्तिः।

कोच्ची>केरले एस् एस् एल् सि इति दशमीकक्ष्याछात्राणां सार्वजनिकी परीक्षा समाप्ता । न केवलं केरले आभारतं वैज्ञानिकमण्डलस्य बहूनां कर्ममण्डलानां च मूलभूत-योग्यतारूपेण SSLC प्रमाणपत्रस्य प्राधान्यमस्ति । अतः दशमीकक्ष्याछात्राणां विषये रक्षाकर्तृषु अध्यापकेषु अभ्युदयकांक्षिषु च अध्ययनवर्षादारभ्य नितान्तजाग्रता आसीत्। ४.५ सार्थ चत्वारि (४.५) लक्षाधिकाः छात्राः परीक्षां लिखितवन्तः । राज्ये विविधस्थानेषु केन्द्रीकृतमूल्यनिर्णयः एप्रिल् प्रथमदिनाङ्कादारभ्य द्वादश (१२) दिनाङ्कपर्यन्तं भविष्यति । पञ्चविंशति (२५ ) तमदिनाङ्काभ्यन्तरे फलं प्रसिद्धीकर्तुं शक्नुयादिति अधिकारिभिः उक्तम् ।

इन्टिगो विमानेभ्यः विस्फोटकात् भीतिःI

नव दिल्ली > इन्टिगो एयर् लैन्सस्य दशसंख्येभ्यः विमानेभ्यः विस्फोटकात्‌ भीतिः। इदानीं विमानेषु समीक्षणं चलन्नस्ति।
विमान संस्थायाः चेन्नै आह्वान-केन्द्रेषु भीतिदं सन्देशं लब्धम्। सन्देशस्य उत्पत्तिस्थानं भारतात् बहिरासीत् इति सूचना।
ब्रसल्देशस्य आक्रमणात्‌ पूर्वमपि एतादृशं सन्देशां आसीत् ।

कनय्याकुमारः हैदराबाद् विश्वविद्यालयं प्राप्तः।

हैदराबाद् > जे एन् यू विश्वविद्यालयस्य छात्रनेता कनय्यकुमारः हैदराबाद् विश्वविद्यालयं प्राप्य तत्रस्थं विद्यार्थिप्रक्षोभाय ऐक्यदार्ढ्यं प्रख्यापितवान् । रोहित् वेमुलः नामकस्य छात्रस्य आत्माहूत्यानन्तरं तात्कालिकविरामं स्वीकृतवतः उपकुलपतेः अप्पारावुवर्यस्य प्रत्यागमनं पुरस्कृत्य कलालये संघर्षः उद्भूतः आसीत् ।
स्वमात्रा सहैव सः कलालयं प्राप्तः। तस्य सन्दर्शनं पुरस्कृत्य महान् सुरक्षासन्नाहः स्वीकृतः आसीत्।