OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 10, 2016

 भारतराष्ट्राय मेक्सिकोराष्ट्रस्य सहयोगः 

मेक्सिकोसिट्टि> विश्वस्य आणववितरणसंघे अङ्गत्वसम्पादनाय भारतराष्ट्रं प्रति मेक्सिकोराष्ट्रस्यापि सहयोगः।   भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः मेक्सिकोराष्ट्रस्य सन्दर्शनवेलायाम् मेक्सिको राष्ट्रपतिना एतत् प्रस्तावितम्‌। सन्दर्शनानुबन्धिकतया नरेन्द्रमोदिनः कृते मेक्सिकोदेशीये व्योमयानसङ्‌केते राजकीयस्वीकरणमेव सज्जीकृतमासीत् । व्योमयानसङ्‌केते मोदीं स्वीकर्तुं विदेशकार्यसचिवः क्लौडियो रूयिस् सन्निहितः आसीत् । बुधवासरे अमेरिकायाः राष्ट्रप्रतिनिधिसभायां प्रभाषणानन्तरमेव मोदिना मेक्सिको सन्दर्शितम्। आणववितरणसंघे अंगत्वसम्पादनाय अमेरिका सहितानि बहूनि राष्ट्राणि भारतं प्रति सहयोगं न्यवेदयन् वर्तते।


क्षेपणायुध-विक्रयं लक्ष्यीकृत्य भारतम्

         नवदहली> वियट्नां सहितेभ्यः राष्ट्रेभ्यः नूतनं क्रूस् क्षेपणायुधसंविधानं विक्रेतुं भारतसर्वकारस्य पर्यालोचना। भारत-रष्या  संयुक्तसंविधानेन निर्मितं 'ब्रह्मोस्' क्षेपणायुधं पञ्चदशपरिमितेभ्यः राष्ट्रेभ्यः विक्रेतुं सर्वकारेण निर्णयः स्वीकृतः। अन्येभ्यः राष्ट्रेभ्यः अत्यधिकम् आयुधं स्वीक्रियमाणेन भारतराष्ट्रेण अनेन आयुधविक्रयणेन मण्डलेऽस्मिन् महान् लाभः एव प्रतीक्ष्यते। एतदनुसृत्य वियट्नां, इन्डोनेष्या, चिली , ब्रसील्, दक्षिणाफ्रिक्का इत्यादिभ्यः पञ्च राष्ट्रेभ्यः क्षेपणायुधविक्रयणाय ब्रह्मोस् एय्रो स्पेस् संघं प्रति प्रधानमन्त्रिणा निर्देशः दत्तः वर्तते।

 शासनसंविधानं भारतसर्वकारस्य विशुद्धग्रन्थः - नरेन्द्रमोदी।

न्यूयोर्क्> भारतस्य शासनसंहिता सर्वकारस्य विशुद्धग्रन्थ इति परिगण्यते इति प्रधानमन्त्री नरेन्द्रमोदी। अमेरिक्कायां विधानसभायाः संयुक्तसम्मेलम् अभिसंबुद्ध्य भाषमाणः आसीत् मोदिवर्यः।
 अमेरिक्कायाः जनाधिपत्यसविशेषताः बहुनां राष्ट्राणां प्रचोदनाय अभवन्निति तेनोक्तम्। तथा महात्मागान्धिनः अहिंसासिद्धान्ते मार्टिन् लूथर् किङ् वर्यः अपि आकृष्टः अभवदिति मोदिवर्यः प्रस्तौति स्म।

'विराम: अधुना नास्ति'-धोनी
नवदहली> क्रिकट्क्रीडा मण्डलात् स्वविरामम् अधिकृत्य मनः उद्घाट्य भारतस्य एकदिनक्रिकट्संघनेता महेन्द्रसिंहधोनी। क्रीडायां धावनादिषु अंशेषु क्लेशमनुभूयमाने अवसरे विराममधिकृत्य चिन्त्यते इति त्रिपञ्चाशत् वयस्क: सः अवदत्। स्वनेतृस्थानविषये बि सी सी ऐ अधिकारिभिः एव अन्तिमनिर्णय: स्वीक्रियते इत्यपि सूचितम्।