OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 22, 2016

विशेषवार्ता
ओट्टिसं नाम रोगेण क्ळेशितः बालः इदानीं संस्कृतभाषाप्रवीणः अभवत् ।
चन्द्रकान्तः नाम बालकः संस्कृतभाषया सह षट्सु भाषासु प्रवीणः अस्ति। द्वितीये वयसि रोगबाधितः सःI तस्य पिता सुनिलः माता षिजी च तं वात्सल्येन अपालयताम् । तयोः वात्सल्यस्य फलमिव पञ्चमे वयसि आङ्गलेय अक्षराणि अनेन अपठत्। एकवर्षाभ्यन्तरेण संस्कृतं हिन्दी च पठितुमारब्धवान् तत् तस्य बुद्धिविकासस्य कारणमभवश्च। इदानीं सः कोट्टयं देशस्य समीपे विद्यमाना कारिक्कोट्‌ के एम् एम् यु पि विद्यालये सप्तम कक्षायां पठन् अस्ति। एषः पितृ वात्सल्यमघिकृत्य मातृभाषायां कवितां रचितवान् । कैरल्याः प्रमुखदिनपत्रिकायां 'मातृभूम्यां ' तेन विरचिता कविता प्रकाशिता अस्ति। अनेन विरचितः कवितासमाहारः केरळस्य शिक्षामन्त्रिणा पूर्वं प्रकाशितः आसीत् ।
भवतु । संस्कृतभाषापठनम् अस्माकं बुद्घिविकासाय भवति ।