OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 28, 2016

पय्यन्नूरस्थसंस्कृतसमित्या  जनप्रतिनिधेः  प्रस्तावनायाः प्रतिषेधः प्रकटीकृतः । 
उपजिल्ला- शैक्षिकाधिकारिणः श्री रामनाथमहोदयस्य आध्यक्ष्ये संस्कृतप्रवर्तनानां वार्षिकासूत्रणयोगे एव समित्या प्रतिषेधः प्रदर्शितः। समित्याः मुख्यसंयोजकः श्री गोविन्दमहाशयः तथा भारवाहिनश्च सन्निहिताः आसन् । संस्कृतभाषायाः उपरि अवक्षिप्यमाणं किमपि अनाधारारोपं न सहामहे इति संस्कृतप्रेमिणः अध्यापकाः च उच्चैः उद्घोषितवन्तः ।

शबरि गिरिदेशीयतीर्थाटनकेन्द्रं - शतकोटिरूप्यकाणां पद्धतिः अङ्गीकृता। 
अनन्तपुरी - शबरिगिरिं देशीयतीर्थाटनकेन्द्ररूपेण विकासयितुं राज्यसर्वकारेण समर्पितायाः ९९.९८कोटिरूप्यकाणां पद्धत्याः केन्द्रसर्वकारस्य अङ्गीकारः। केन्द्रस्य स्वदेश् दर्शन् नामिकायां पद्धत्याम् अन्तर्भावयित्वा एरुमेलि - पम्पा - सन्निधानानि योजयित्वा  आत्मीयतीर्थाटनकेन्द्रं कर्तुमेव अनया पद्धत्या उद्दिश्यतेति केन्द्रविनोदसञ्चारविभागमन्त्रिणः डो. महेष् शर्मणः कार्यालयवृत्तैः  उक्तम्।
 गतफेब्रुवरिमासे एव अङ्कारः लब्धः आसीत्। किन्तु निर्वाचनवेला इत्यनेन कारणेन प्रख्यापनं नाभवत्।