OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 29, 2016

राष्ट्रिय-मानबिन्दुं विरुद्ध्य केरळराज्यस्य संसदङ्गः वि.टि बलरामः

 केरळराज्यस्य संसदङ्गः (MLA) वी.टी बलरामस्य संस्कृतभाषाविरुद्ध-भाषणे  आभारतं जनाः प्रतिषेधं प्रदर्शितवन्तः।

मृतभाषा इति 'फेस् बुक्' माध्यमद्वारा संस्कृतभाषाम् अधिकृत्य अनाधारारोपं प्रकाशितवान् बलरामः ।
भारत-संविधानेन अङ्गीकृतासु अष्टादशभाषासु प्राचीनतमं भवति संस्कृतम्। इदानीमपि सर्वेषां भारतीयभाषाणां पोषकाधारा च। एतादृशीं भाषाम् अपक्वमनसा उपहासं कुर्वतः अस्य, जनप्रतिनिधेः स्थानमार्जयित्वा कृतव्यवहारः निन्द्यः एव। राष्ट्रिय-मानबिन्दवः सदा समादरणीयाः खलु। एतस्य अपक्वाभिमत-प्रकाशनं विरुद्ध्य सर्वेषां विप्रतिपत्तयः प्रकाशयन्ताम् इति केरळ संस्कृताध्यापक फेडरेषन् दलस्य सचिवः टि.के सन्तोष्कुमारः अवदत् ।

संस्कृतम् अमृतस्य भाषा डा. बलदेवानन्दसागरः।

 नवदेहली >स्वस्यसंस्कृेतेः महिमानम् संस्कृतभाषायाः गरिमा च अज्ञात्‍वा एव केरळ राज्यस्य संसदङ्गः वि.टि बलरामः स्वस्यअभिमतस्य प्रकाशनम् अकरोत् इति बलदेवानन्द सागर: अवदत्। संस्कृतं मृतभाषा न अमृतभाषा एव। संसदङ्गाः तत् ज्ञात्वा पक्वमतयः भवन्तु इत्यपि तेन उक्तम् । अज्ञातविषये पाण्डित्य प्रकाशनं शेभनं न इति सागरमहोदयः स्मारितवान् च ।


सर्वकारस्य यशसे जनप्रतिनिधयः श्रद्धालवः भवन्तु - मोदीः।
   नवदहली > जनप्रतिनिधयः सभायां तथा बहिः च सर्वकारस्य यशसे श्रद्धालवः भवन्तु इति प्रधानमन्त्रिणः मोदिनः उद्‌घोषणम् । स्वपक्षप्रतिनिधिः वा प्रतिपक्षप्रतिनिधि: वा भवतु जनानां प्रतिनिधित्वेन सभायां बहिः च भाव्यम् इति मोदिना उक्तम्। समीपकाले रिसर्व्बाङ्‌क्  अध्यक्षस्य रघुराम् राजस्य स्थानत्यागविषये उन्नीयमानाः आरोपा: सर्वकारस्य शोभां न्यूनीकरिष्यतीति भा ज पा दलप्रतिनिधेः सुब्रह्मण्यं स्वामिनः नाम अनुक्त्वा मोदिना सूचितम्। रघुराम् राजः उत्तमः राज्यस्नेही तथा भारतस्य आर्थिकमण्डलस्य अनिवार्यभाग: च भवतीति प्रधानमन्त्रिणा अभिप्रेतम्।


 कोप्पा किरीटः चिलिराष्ट्राय।
न्यूजेर्सी - कोप्पा अमेरिक्का पादकन्दुककिरीटः अर्जन्टीनां पराजित्य  पुनरपि चिलिदेशेन करस्थीकृतः। निश्चिते समये उभयोः राष्ट्रयोः कन्दुकलक्ष्यरहिते स्थिते षूट् औट् मार्गेण ४-२ कन्दुकलक्ष्ये एव चिली जितः।
  गतवर्षे अपि अर्जन्टीनामेव  पराजित्य चषकं प्राप्तवानासीत्।

रिसर्व् बाङ्क् - अध्यक्षस्थानाय चतुर्णां पट्टिकाः।
   नवदहली > समयावधिं पूर्तीकृत्य सितम्बर् मासे स्थानं त्याज्यमानस्य रघुराम् राजस्य अनुयायिनं निर्णेतुम् अन्तिमा पट्टिका सम्पन्ना इति सूचना। अष्टानां प्रमुखाणां नामभि: सह पूर्वं सज्जीकृतायाः पट्टिकायाः एव चतुर्णाम् अन्तिमा पट्टिका सज्जीकृता वर्तते। रिसर्व् बाङ्क् नियुक्ताधिकारी उर्जित् पहेल्, भूतपूर्वनियुक्ताधिकारिणौ राकेष्मोहनः , सुबीर् गोखन् च एवं एस् बि ऐ अध्यक्षा अरुन्धती भट्टाचार्या इत्यादय: प्रमुखाः अन्तिमपट्टिकायां अन्तर्भूताः सन्ति। राष्ट्रस्य आर्थिकनयरूपीकरणाय समितेः रूपीकरणमपि केन्द्रसर्वकारस्य पर्यालोचनायां वर्तते।

 नूतनसमस्या उभयपक्षचर्चायै विघ्नाः- चैना।
  बीजिङ् > सीमातर्काः तथा नूतनाः काचन समस्याः च भारत-चैनयोः उभयपक्षबन्धुत्वदृढीकरणे विघ्नाः भवन्तीति चैनायाः विदेशकार्यसहसचिवः ली हुलैः अवदत् । भारतेन सह बान्धवः सर्वदा चैनाया: मुख्यः विषयः एव इति तेन उक्तम्। तथापि नूतनसमस्याः काः इति विशदी कर्तुं स: सन्नद्धः नाभवत् ।

अर्जन्टीना'मिशिहा' निवृत्तः।
न्यूजेर्सी - आराधकैः प्रेमपुरस्सरं "मिशिहा" (रक्षकः) इति संबुध्यमानः पादकन्दुकेतिहासः अर्जन्टीना नायकश्च लयणल् मेस्सी अन्ताराष्ट्रपादकन्दुकस्पर्धातः निवृत्तः।
   कोप्पा अमेरिक्का शताब्दिमेलिकायाः अन्तिमचरणे चिलिं प्रति पराजयप्राप्तेः अनन्तरक्षण एव आराधकानां द्वितीयाघात इव क्रीडानिवृत्तिमधिकृत्य मेस्सीवर्यस्य प्रख्यापनमभूत्। चिलिं विरुध्य षूट् औट् मध्ये मेस्सेः प्रहरः बहिर्गत्वा  वृथा जातः। एतस्य निराशा अन्ते परजयस्य आघातः च मेस्सेः नाटकीयनिवृत्तप्रख्यापनस्य कारणभूतौ जातौ।
  विश्वस्य श्रेष्ठपादकन्दुकक्रीडकाय देयमानः बालण् द्योर् पुरस्कारः पञ्चवारम् अनेन स्वायत्तीकृतः। ११३ स्पर्धासु ५५ कन्दुकलक्ष्याणि प्राप्य  अर्जन्टीनायै नवचरितमपि रचितवानयम्।