OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 22, 2016

परीक्षायां व्याज: - समितेः पूर्वाध्यक्षः बन्धने।
       पाट्ना > बीहारराज्ये कतिपयदिनेभ्यः पूर्वं प्रत्यक्षीकृते परीक्षासम्बन्धविवादे आरोपणविधेयः बीहार् विद्यालयीयपरीक्षासमितेः पूर्वाध्यक्ष: लाल्केश्वर प्रसाद् सिंह: , पत्नी उषा सिन्हा च आरक्षकै: बन्धिते I जूण् १५ तमे दिने द्वयोरुपरि बन्धनकल्पना प्रख्यापिता आसीत्I सोमवारे एव उभावपि प्रत्येकान्वेषणसङ्‌घेन बन्धितौ।

बिरुदप्रवेशाय अखिलभारतीय प्रवेशनपरीक्षा।
 नवदहली > देशीयशैक्षिकनयरूपीकरणप्रक्रियायाः सम्बन्धतया समितेः पक्षतः नूतन: निर्देशः आगतः। शैक्षिकमण्डले समग्रं परिवर्तनं लक्ष्यीकृत्यैव परिष्करणसम्प्रदायःI नूतनं निर्देशम् अनुसृत्य दशमीकक्ष्यायाः द्विविधां परीक्षां सञ्चालयितुं निर्देशः। एतदर्थं दशमी कक्ष्यायां उन्नतस्तरीया , अधस्तरीया च इति द्विविधपरीक्षायाः एव निर्देशः। दशमीकक्ष्यानन्तरं उपरिपठनम् इच्छन्तः छात्रा: एव उन्नतस्तरीयां परीक्षां लिखन्तु , अन्यैः अधस्तरीया परीक्षा लेखनीया च। एवं बिरुदप्रवेशनाय अखिलभारतीयप्रवेशनपरीक्षा चालनीया च I टि. एस्.आर् सुब्रह्मण्यस्य आध्यक्षे पठनं कुर्वन्ती समिति: एव निर्देशम् अकरोत् । अपि च सर्वेषु विद्यालयेषु संस्कृतभाषापठनस्य आङ्‌गलं , हिन्दी भाषावदेव प्रामुख्यं कल्पनीयम्। पाठ्यपद्धतौ योगपठनस्य स्थानम् अवश्यं कल्पनीयम्‌ इत्येवम् अनेके श्रद्धेयाः अंशा: समित्या निर्देशिताः।

आणवसामग्रीवितरणसङ्घे भारतस्य प्रवेशः,स्वमते व्यत्यय: नास्तीति चैना।
  बीजिङ्‌ > स्वमते तीव्रतां प्रतिपाद्य पुनरपि चैना। अग्रिमसप्ताहे सोल् देशे प्रचाल्यमाने योगे भारतस्य सङ्घप्रवेश: विषय एव नास्तीति चैनायाः विदेशकार्यवक्ता अवदत्। आणवसामग्रीवितरणसङ्घे अधुना ४८ राष्ट्राणि सन्ति। यानि राष्ट्राणि आणवनिर्व्यापनसम्मतपत्रे मुद्रां न कृतानि तेषां सङ्‌घप्रवेशे सङ्‌घाङ्गानां मध्ये विरुद्धाभिप्रायाश्च सन्तीत्यपि तेन सूचितम्। स्वमतं कमपि राष्ट्रम् उद्दिश्य नास्तीत्यपि भारतं परोक्षरीत्‍या संसूच्य स: उक्तवान् । पूर्वस्मिन् दिने भारतस्य विदेशकार्यसचिवा सुषमा स्वराजः भारतस्य सङ्‌घप्रवेशे चैनायाः सहयोगः अवश्यं लप्स्यते इति असूचयत्। किन्तु नूतनावस्थायां भारतस्य प्रवेशसम्बन्धी आशङ्‌का वर्धयन्ती एव।

दहली- वाराणसी अतिवेगरेलयानम् साक्षात्करिष्यति।
   नवदहली> दहली- वाराणसी अतिवेगरेलयानम् अचिरादेव साक्षात्करिष्यति। अनेन रेलयानेन ७८२ कि.मी. दूरं केवलं १६० निमिषैः प्रापयिष्यतीति विदग्धैः अभिप्रेतम्। अलिगड्, आग्रा ,काण्पूर् , लक्नौ इत्यादिषु तीर्थकेन्द्रेषु नगरेषु अपि रेलमार्गस्य योजना अस्ति इत्येतत् जनानां कृते महदुपकारः भविष्यति। एतत्तु भारतस्य द्वितीयम् अतिवेगरेलसंविधानं भवति।

प्रतिरोधमण्डले १००% विदेशनिक्षेपाय केन्द्रसर्वकारः।
   नवदहली > प्रतिरोध: , व्योमयानः इत्यादिषु मण्डलेषु १००% विदेशनिक्षेपाय केन्द्रसर्वकारस्य निर्णयः । औषधमण्डले ७४% निक्षेपः अपि वैदेशिक: भवतु इत्यपि निर्णयः स्वीकृतः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्षे संवृत्तः योगः एव निर्णयोऽयं अकरोत्। एवं अन्तर्जालव्यापारः अपि शक्तं करिष्यति। अस्य स्वाधीनं सर्वेष्वपि मण्डलेषु व्यापरिष्यति इति केन्द्रसर्वकारस्य अभिमतम्।

केरला ब्लास्टेर्स् कृते नूतनपरिशीलक:
  मुंबई > गतक्रीडाकालस्य पराजयानुभवान् परिहर्तुं नूतनपरिशीलकेन साकं सज्जीकरणम् आरभ्य केरला ब्लास्टेर्स् I भूतपूर्व: इङ्‌ग्लाण्ट् देशीयक्रीडक: तथा माञ्जस्टर् सिट्टी परिशीलक: च स्टीव् कोप्पल् एव ब्लास्टेर्स् परिशीलक: इति सङ्‌घाधीशः सचिन् टेण्डुल्कर: सामूहिकमाध्यमेन ट्विटर् द्वारा  प्रख्यापितवान् ।

रघुराम् राजन् सौदीं गमिष्यति किम्?।
 नवदहली > कालावधिं पूर्तीकृत्य उभयसम्मतपत्रस्य नवीकरणं नेष्यतीति प्रख्यापितः रघुराम् राजः सौदीराष्ट्रस्य आर्थिकोपदेशकस्थानं स्वीकरिष्यतीति सूचना । राजम् आहूय सौदीराज्ञा अभ्यर्थना कृता इति नूतनसूचना:। उत्तमं प्रतिफलं तथा अन्यानि बहूनि आनुकूल्यान्यपि तस्मै प्रख्यापितानि इति अन्तः राष्ट्रमाध्यमप्रवर्तकैः सूच्यते।

भारसेवनकरक:- स्वमतं प्रस्ताव्य पिणरायि विजय:
 नवदहली > केन्द्रसर्वकारेण लोकसभायाम् अनुमतिं स्वीकृत्य राज्यसभायाम् अनुमतये समर्प्यमाणे भारसेवनकरकविषये केरलासर्वकारस्य मतं प्रस्ताव्य मुख्यसचिव: पिणरायि विजय:। उपभोक्तृराज्यमित्यतः प्रस्तुतविषये केरलराज्यस्य आशङ्का कापि नास्ति, अतः भारसेवनकरकविषये केन्द्रसर्वकाराय सहयोगं दास्यतीति तेन उक्तम्। विषयेऽस्मिन् सन्देहः कोऽपि नास्ति, सहयोगः अवश्यं दातव्यः इति पूर्वमेव केरलासर्वकारस्य धनसचिवः डा. तोमस् ऐसक् वदति स्म। तथा च राज्यसभायामपि अनुमतिं प्राप्य नूतनं भारसेवनकरकं राष्ट्रे संस्थापयितुं केन्द्रसर्वकारेण प्रयत्‍नं शक्तं करिष्यति।