OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 15, 2016

काश्मीरे सैनिकव्यूहं प्रति भीकराक्रमणम् - एकस्मै वीरमृत्युः।
श्रीनगरम्> जम्मुकाश्मीरे श्रीनगरे कर्तव्यनिर्वहणानन्तरं स्वावासस्थानं प्रतिनिवृत्तमानं सैनिकवाहनव्यूहं प्रति भीकराणाम् आक्रमणं संवृत्तम्। कश्चन सैनिकः वीरमृत्युं प्राप्तः। अष्ट आहताः च।
    श्रीनगरस्य समीपं सक्कुरप्रदेशस्थस्य सशस्त्र सीमाबलस्य [एस् एस् बि] वाहनव्यूहं विरूद्ध्य गोलिकास्त्रप्रयोगः कृतः। जनवासप्रविश्या इत्यतः सैनिकानां प्रत्याक्रमणम् अवधानतया आसीत्। प्रदेशः सैन्यैः परिवृतः अस्ति। भीकरेभ्यः अन्वेषणम् ऊर्जितं प्रवर्तते।

 कण्णूरे आरक्षकाः निस्साहाय्यकाः - ऐ जी।
कण्णूर् > केरळे कण्णूर् जनपदे राजनैतिकदलप्रतियोगिषु परस्परसंग्रामेषु स्थितेषु वयम् आरक्षकबलं निस्साहाय्यावस्थाम् उपगताः इति उन्नताधिकारिणः विलापः। उत्तरमण्डलस्य ऐ जि वर्यः दिनेन्द्र काश्यपः आरक्षकदलस्य परिमितिं प्रकाशयति स्म।
     प्रतिद्वन्दिषु को पि समवायं नेच्छति। केवलम् आरक्षकदलप्रयत्नेनैव शान्तिं पुनःस्थापयितुं न शक्यते। किन्तु परमां सुरक्षाव्यवस्थां स्वीकर्तुं यतामहे। काश्यपवर्यः अवदत्।