OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 13, 2016

पाम्पोर् सैनिकक्रिया समाप्ता - द्वावपि भीकरौ मारितौ। 
 श्रीनगरं - दिनत्रयात्मकसंघट्टनस्य अन्ते काश्मीरस्य श्रीनगरसमीपे पाम्पोर् प्रदेशे सर्वकारभवनस्य अन्तः प्रविष्टौ द्वावपि भीकरौ सैन्येन मारितौ। झलं नदीतीरे सर्वकारस्य संरम्भकत्व विकसन संस्थायाः [जे के ई डि ऐ] आवासमन्दिरे प्रविष्टौ भीकरौ एव मारितौ। संघट्टने एकः सैनिकः आहतः। भीकरसकाशात् विविधानि आयुधानि संगृहीतानि। सप्त निश्रेणीयुक्ते आवासमन्दिरे सोमवासरे आसीत् भीकरप्रवेशः। दिनत्रयदैर्घ्येण सैनिककर्मणा भवनस्थाः ६० प्रकोष्ठाः सुरक्षिताः इति कमान्डिङ् जनरल् आफीसर् अशोक् नरूलवर्येण उक्तम्।
विरामं विना प्रधानमन्त्री।
नवदेहली>प्रधानमन्त्रिणः विरामः नास्ति इत्येव सङ्कल्पः इति प्रधानमन्त्रिणः कार्यालयात् विज्ञप्तिः अभवत्। प्रधानमन्त्रिणे अवकाश लब्ध्यर्थं नियमः किम् इति ज्ञातुं सूचनाधिकार -नियमानुसारं दत्ते आवेदनपत्रे लब्धमुत्तरम् एवं आसीत्। भूतपूर्व -प्रधानमन्त्रिणः अवकाशान् अधिकृत्य कापि रेखा नास्ति इति ते वदन्ति। प्रधानमन्त्री नरेन्द्रमोदी इतःपर्यन्तं विरामः न स्वीकृतः इति च ते वदन्ति।

बन्धुनियुक्तिविवादः - जयराजस्य त्यागपत्राय सम्मर्दः। 
कोच्ची >केरलस्य उद्योगविभागमन्त्री ई पि जयराजः सुप्रधानस्थानेषु स्वबन्धुजनेभ्यः अनर्हं  नियुक्तिम् अदात् इति विषये स्व जनपक्षपातः भ्रष्टाचारः इत्यादिकमुन्नीय जयराजस्य स्थानत्यागाय सम्मर्दः वर्धितः। प्रश्ने अस्मिन् तीव्रं परिष्करणमावश्यकमिति सि पि एम् दलस्य केन्द्रनेतृत्वेन निर्दिष्टम्। निर्णयः राज्यनेतृत्वाय कल्प्यते।
    तथा च केरलस्य विपक्षदलनेतृभिरपि नीतिन्याययुक्ताय क्रियाविधये परिदेवनानि समर्पितानि। जाग्रतासंस्थया त्वरितपरिशोधनां कर्तुं निर्णयः अद्य स्यादिति प्रतीक्षते।

संस्कृताध्यापकानां राज्यस्तरीयमेलनं फेब्रुवरी मासे।
कोषिक्कोट्> केरळ संस्कृताध्यापक फ़ेडरेशन् नामकीयस्य -दलस्य संवत्सरीय-सम्मेलनस्य मुखचित्रं प्रकाशितम्। ह्यः कोषिकोट् जनपथे आयोजिते कार्यकारिणीमेलने कोण्ग्रस्  राजनैतिक दलीयेन लोकसभासदस्येन एम् के राघवेन मुखचित्रम् (Logo) स्वागतसंधाध्यक्षाय पि.वी गंङ्गागाधराय दत्वा प्रकाशितम्। फेडरेषनस्य अध्यक्षः वेणु चोव्वल्लूर्, पी जी अजित् प्रसाद्, टी के सन्तोष् कुमार्, बिजु काविल् , के पि श्रीधरन् सी पी सुरेष्‌ बाबु, एम् सि रतीष् प्रभृतयः भाषणमकुर्वन् । २०१७ फेब्रवरि २,३,४ दिनेषु कोषिक्कोट् जनपथे संवत्सरीय-समारोहः प्रचलिष्यति। दलस्य अस्य एकोन चत्वारिंशत्तमस्य संवत्सरस्य समारोहः भवति अयम्।  केरळदेशस्य संस्कृताध्यापकानां दलः भवति के एस् टी एफ्(KSTF)। विभिन्न राजनैतिक दलीयाः अस्मिन् एकमनसा कार्यं कुर्वन्ति।