OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 22, 2017

मदिरानिरोधाय - बीहारे विश्वस्य दैर्घ्यतमा मानवश्रृङ्खला।
नवदिल्ली> नितीष् कुमारसर्वकारस्य मदिरानिरोधनीतिं प्रति सहयोगं कृत्वा बीहारराज्ये द्विनवत्यधिक द्विशतोत्तर एकादशसहस्रं किलोमीटर् (११,२९२) दूरे मानवश्रृङ्खला कृता। शासनपक्ष-विपक्षभेदं विना राजनैतिकदलप्रवर्तकाः नेतारः महिलाः बालकाः इत्यादयसहिताः द्विकोट्यधिकं जनाः भागभाक्भूताः।
     विश्वस्य दैर्घ्यतमा मानवश्रृङ्खला भवत्येषा इति बीहारस्य मुख्यकार्यदर्शिना अञ्जनिकुमार् सिंहेन अभियोगः कृतः। मध्याह्ने १२.१५ वादनस्य एकवादनस्य च मध्ये एव श्रृङ्खला कारिता। पट्नायां गान्धिक्रीडाङ्कणे मुख्यमन्त्रिणा नितीष्कुमारेण विभिन्नवर्णयुक्तेषु वायुगोलकेषु उड्डायितेषु मानवश्रृङ्खलायाः प्रारम्भः जातः। २०१६ एप्रिल् पञ्चमदिनाङ्के आसीत् बीहारे मदिरानिरोधः कृतः।