OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 30, 2017

राष्ट्रेण स्थगायिताः इतरदेशीयाभयार्थिनः कनडा स्वीकर्तुं सन्नद्धा ।
टोरन्टो > यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निवारितापि कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो महाशयेन इतरदेशीयाभयार्थिनः स्वागतीकृताः। सप्तानां इस्लामिकराष्ट्राणां  जनानां तथा अभयार्थिनं च स्वराष्ट्रे प्रवेशं  निरुघ्य कृतः निर्णय: राष्ट्रे राष्ट्रान्तरे च विचार-विमर्शानां कारणत्वेन अभवत् । एवं स्थिते सति कानडायाः अभयार्थिनयं सर्वेषां सुविचाराय भविष्यति। ट्विट्टर द्वारा आसीत् स्वागतवचनम्। भिन्न धर्मानुयायिनः चेदपि स्वागतं करोमि इति जस्टिन् ट्रूडो अवदत्। वैविध्यमेव अस्माकं शक्तिरिति च सः अवदत्।

 ऐ एस् भीकरदलंविरुद्ध्य यूस् रष्ययोः मिथः सन्धिः।
वाषिङ्टण् > ऐ एस् नामकं भीकर दलंविरुद्ध्य योद्धुं यू एस् राष्ट्रपतिना डोणाल्ड् ट्रम्पेन तथा रष्यायाः राष्ट्रपतिना व्लाडिमिर् पुटिनेन च कृतयोः संभाषणे निर्णयः स्वीकृतः। द्वयोः राष्ट्रयोः मध्ये सुदृढबन्धाय सार्थक: पदक्षेपः भवति इदम्  इति वैट् हौस्  वक्ता वदति। दूरवाणीद्वारा एकघण्डा-पर्यन्तमासीत् भाषणम्। सिरिया युक्रैन् संघर्षाणाम् अनुबन्धतया एव उभययोः राष्ट्रयोः मध्ये विदूरबन्धः जातः आसीत्। दूरवाणीभाषणं गुणदायकम् इति रष्यापक्षीयाणां अभिप्रायः। नैकाः राष्ट्रान्तर-समस्याः संभाषणे प्रतिपादिताः आसन्।