OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 20, 2017

ट्रम्पः अद्य अमेरिक्कायाः राष्ट्रपतिस्थानमारोहतिI 
 वाषिङ्टन् > अमेरिक्कायाः पञ्च चत्वारिंशत्तम राष्ट्रपति पदमारोहति डोणाल्ट् ट्रम्पः। अद्य प्रतिज्ञास्वीकारकर्मः भविष्यति। सर्वोच्च-न्यायालयस्य मुख्य न्यायाधीशः जोण् रोबर्ट्वर्यस्य प्रतिज्ञावाक्योश्चारणं स्वाधीनतायां उच्चार्य एव स्थानारोहणम्। ७० वयस्कः ट्रम्पः एव वयोधिकः प्रथमराष्ट्रपतिः । भूतपूर्वराष्ट्रपतिः डोणाल्ड रैगस्य प्रतिज्ञाकरणसमये ६९ वयः आसीत् ।

मदिरापानं न मौलिकाधिकारः - उच्चन्यायालयः।
कोच्ची> मदिरापानं कदापि पौराणां मौलिकाधिकारः नास्तीति केरलस्य उच्चन्यायालयेन स्पष्टीकृतम्। जीवनाधारभूताः अघिकाराः एव भारतीयशासनसंविधानेन दृढीक्रियते, न तु मदिराधिकारः। मदिराविक्रयशालानां संख्यान्यूनीकरणं विरुध्य समर्पिताः पुनर्याचिकाः निरस्य एव खण्डन्यायपीठस्य आदेशः।
    राज्ये सम्पद्यमानेषु अपराधेषु प्रतिशतं षष्ट्यधिकाः मद्यसंबद्धः इति कानिचन अन्वीक्षणानि पुरस्कृत्य उच्चन्यायालयेन स्पष्टीकृतम्। आतुरालयान् प्रविष्टमानेषु आतुरेषु प्रतिशतं १९-२० जनाः मद्यपानाधिष्ठिताः भवन्ति। एतादृशानां चिकित्सार्थं परिवारार्थिकायस्य भूरिभागं व्ययं करोति। एवं विधनिरीक्षणेनैव न्यायालयेन पुनर्याचिकाः निरस्ताः

कौमारकलामेला उत्तेजनस्य उत्तुङ्गश्रृङ्गे।
ChaakyaarKooth-Sreehari 
कण्णूर् >एष्याभूखण्डस्य बृहत्तमा कौमारकलामेला उत्सवोद्दीपनस्य उत्तुङ्गश्रृङ्गपदं प्रविष्टा। केरलानां नदीनामिकासु पञ्चदशवेदिकासु मनोरञ्जकानि कर्णानन्दकराणि नयनमोहनानि च कलाकार्यक्रमाः कौमारप्रतिभाभिः अवतारयन्तः वर्तन्ते।
     सामान्यकलोत्सवादृते संस्कृतोत्सवः अरबिक् कलोत्सवश्च आयोजितः। संस्कृतोत्सवे १९ विभागेषु स्पर्धाः सन्ति। केरल संस्कृताध्यापक फेडरेषन् सङ्घेन संस्कृतोत्सवः प्रचाल्यते। (Photo- Sree Hari . The student of NSS HSS Parakkadavu, Aluva)



बाबा रामदेवस्य सारथ्ये लक्षं जनानं योगासन प्रदर्शनम्।
नवसंख्याकानां विश्वप्रमाणानि।
नव देहली >स्वामि विवेकानन्दस्य चतु पञ्चाशदधिक शतततमे जयन्तिमहोत्सवे नवानि नवविश्वप्रमाणानि (world record) प्राप्तानि । भिलई जयन्ती नाम क्रीड़ाक्षेत्रे त्रयश्चत्वारिषु चत्वरेषु योगासनमवतारितम् । जन निबिडानाम् असङ्ख्यानां सूर्य नमस्काराणं आचरणं , कपालभाति प्राणायामं, अनुलोमविलोम प्राणायामम् ; लक्षशानां योगासन पठनवर्गः , उन्मेषदायका प्रतिज्ञा निमिषाभ्यन्तरेण पतनोत्पदनम् (Push up) ५०,००० जनानानां सर्वाङ्गासनं, हलासनं इत्येतेषु विश्व-प्रमाणं प्राप्तम्। इतोपि राजस्थानीयस्य जयपालस्य १४१ निमेषस्य शीर्षासनं च विश्व-प्रमाणस्य सुवर्णपुस्तके स्थान प्राप्तेः सन्दर्भः अभवत्। छत्तीस् गढ्स्य मुख्यमन्त्री डॉ. रमण् सिंहः, मन्त्री प्रेंप्रकाश पाण्डेयः च सन्निहितौ आस्ताम् ।