OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 18, 2017

शिक्षाक्षेत्रे केरलम् आदर्शराज्यम्- उपराष्ट्रपति:
नवदिल्ली> उपराष्ट्रपतिना मोहम्मदहामिद-अंसारिणा शिक्षा देशस्य विकासाय आधारभूतत्वेन प्रतिपादयता निगदितं यत् केरलं सुशिक्षया एव राष्टस्य आदर्शराज्यत्वेन विकसितम्, अपि च  अनेन जातिप्रथां परित्यज्य समतामूलकसमाजस्य स्थापना कृता।
इंडियन सोशल साइंस इत्यनेन  शिक्षाधिकारसम्बद्धादेशस्य द्विशतवर्षपूर्त्यवसरे आयोजितकार्यक्रमस्य उद्घाटनावसरे डॉ अंसारिणा एतत् प्रतिपादितम्। तेनोक्तं यत् सप्तदशाधिक-अष्टादशशतमवर्षे ट्रावनकोरस्य महाराज्ञीद्वारा सर्वेभ्यः शिक्षाप्रदानाय यः राज्यादेशः प्रख्यापितः आसीत् तेन राज्ये शिक्षाविषये नूतना सामाजिकचेतना जागृता, यया राज्यस्य सामाजिकविकासः वरीवर्धत, अपि च सामाजिकविकासेन आर्थिकविकासस्य आधारशिला स्थापिता।

शिक्षाक्षेत्रे केरलं देशस्य आदर्शराज्यत्वेन प्रतिष्ठितम्, अनेन न केवलं  जातिप्रथा  समाप्ता अपितु समतामूलक समाज: विनिर्मितः, इतः अनन्तरं केरलं ज्ञानाधारितं राज्यम् अभूत्। उपराष्ट्रपतिना भणितं यत् साम्प्रतं केरलम् आर्थिकविकासं प्रति अग्रे प्रसरेत् तदर्थम् आंकिकीय-साक्षरता-कौशल-विकास: वर्धनीयः। तेन उक्तं केरलराज्ये प्रतिव्यक्ति आय सर्वाधिका वर्तते अपि च पूंजीनिवेशः अपि वर्धितः। केरलस्य रीतयः सर्वै: ज्ञातव्यं, केरलराज्यम् शिक्षाक्षेत्रे एकं उदाहरणरूपेण दृष्टिपथे समागतः।