OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 21, 2017

बिहारराज्याध्यक्ष: रामनाथकोविन्द: एन् डी ए दलस्य राष्ट्रपतिस्थानार्थी। 
 नवदिल्ली>बिहारराज्याध्यक्ष: रामनाथकोविन्द:  एन् डी ए दलस्य  राष्ट्रपतिस्थानार्थी  भविष्यति । काण्पूरत: आगत: दलितनेता भवति रामनाथ:। देशीयाध्यक्ष: अमित षा एव स्थानार्थिप्रख्यापनं कृतवान्।  प्रधानमन्त्रिण: नरेन्द्रमोदिन:  अध्यक्षतायां समावेशिते भा ज पा नियमनिर्माणसभामण्डलयोगे  (पार्लमेन्टरी बोर्ड् )  रामनाथस्य स्थानार्थित्वं निर्णीतम्। अस्मिन् मासे त्रयोविंशत्याम्  नामनिर्देशपत्रिका समर्प्यते। प्रधानमन्त्री नरेन्द्रमोदी सोणियागान्धिना मनमोहनसिंहेन च साकं चर्चां कृतवान् । दलेषु चर्चित्वा  निर्णयं ज्ञापयिष्यन्ति इति उक्तवन्त:  इत्यपि स्थानार्थित्वप्रख्यापनावसरे  अमित षा उक्तवान् ।  तथा च उपराष्ट्रपते: विषये कापि चर्चा न प्रवृत्ता  इत्यपि स: व्यक्तीकृतवान् । पञ्चचत्वारिंशदुत्तरनवशताधिकसहस्रतमे  ओक्टोबरमासस्य प्रथमदिनाङ्के  कानपुरे रामनाथसिंह: जनिम् प्राप्तवान् । कानपुरस्थसर्वकलाशालाया: बी कोम् , नियमबिरुदानि च प्राप्य  षोडशवर्षाणि यावत् देहली उन्नतन्यायालये तत: परमोन्नतनीतिपीठे च  अभिवक्तृपदवीमलङ्कृतवान्। अशीत्युत्तरनवशताधिकसहस्रत: त्र्यशीत्युत्तरनवशताधिकसहस्रपर्यन्तम् परमोन्नतनीतिपीठे केन्द्रसर्वकारस्य  स्टान्डिङ् कोण्सल् आसीत्।  उत्तरप्रदेशात्  राज्यसभाम् प्रति द्विवारं चित: (१९९४-२०००), (२०००-२००६)। पट्टिकजातिवर्गक्षेम:, आभ्यन्तरम्, सामाजिकनीति:, नियम:, पेट्रोलियम्  आदिषु विविधनियमनिर्माणसभासमितिषु अङ्गमासीत्। लक्नौस्थे बी आर् अम्बेदकरसर्वकलाशालाया:  प्रबन्धकमण्डले ,  कोलकत्तासर्वकलाशालाया:  अधिकारपदवीमण्डले  च अङ्गमासीत्। द्व्युत्तरद्विसहस्रे  ऐक्यराष्ट्रसभायाम्  भारतस्य प्रातिनिध्यम् अवहत्।  विवादेषु असन्निहित:, उत्तमप्रतिच्छायायुक्त: अयम्  रामनाथकोविन्द: स्त्रीभिः दलितैः एवं,  समाजस्य दुर्बलविभागैः सह स्थितवान्। लोकसभाङ्गेन प्रवर्तनसमये ग्रामीणमेखलायां शिक्षासौकर्यसज्जीकरणे स: विशेषश्रद्धां दत्तवान्। दुर्बलविभागानां स्त्रीणां च नि:शुल्क-नियमसहाय-दानप्रवर्तनेषु  नेतृत्वं दत्तवान् च।