OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 4, 2017

अच्चुदेवः नित्यतां प्राप्तवान्। 
कोष़िक्कोट् > अरुणाचलसीमायां सुखोय् - ३० विमानस्य भग्नेन वीरमृत्युं प्राप्ताय युवसैनिकाय अच्चुदेवाय जन्मग्रामस्य बान्धवानां च अन्त्याञ्जलिः।
      दिल्लीतः अनन्तपुरीम् आनीतः मृतदेहः सविशेषविमानेन करिप्पूर् विमाननिलयं नीत्वा शतशानां वाहनानां अनुगमनेन पन्नियूर्कुलं ग्रामस्थं स्वगृहं प्रापितः। मध्याह्नं सार्धद्विवादनपर्यन्तं गृहाङ्कणे सामाजिकदर्शनाय स्थापितः। दह्रादूणस्थे राष्ट्रिय इन्डियन् सैनिकविद्यालये सहपाठिनः नाषणल् डिफन्स् अक्काडम्यां सहपरिशीलकाश्च अन्तिमोपचारं समर्पयितुम् अच्चुदेवस्य गृहं प्राप्तवन्तः। कोयम्पत्तूर् व्योमकेन्द्रस्य फ्लैट् लफ्टनन्ट् सञ्जय् रत्तस्य नेतृत्वे उपपञ्चाशत् सैनिकाः सैनिकपारम्पर्यमनुसृत्य अन्तिमबहुमतिं दत्तवन्तः। स्वदेशीयाः ग्रामीणाः जयजयघोषेण अन्तिमाभिवाद्यम् अर्पितवन्तः।
     केरलसर्वकारस्य प्रातिनिध्यं स्वीकृत्य मन्त्री कटन्नप्पल्लि रामचन्द्रः , नियमसभासामाजिकाः , अन्ये जनप्रतिनिधयः इत्यादयश्च अन्त्योपचारसमर्पणाय अच्चुदेवस्य गृहं प्राप्तवन्तः आसन्।