OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 11, 2017

काष्ठचुल्लीत: वैद्युति:-  दशमीकक्ष्याछात्र:  केरलस्य अभिमानतारम्।
आलप्पुषा>काष्ठचुल्लीत: वैद्युतिमुत्पाद्य  दशमकक्ष्याछात्र:, हरिप्पाटे पिलाप्पुषायां  ग्रीष्मायाम् आदित्यचन्द्रप्रशान्त: स्वीयगवेषणेन  प्रदेशस्य अभिमानम् अवर्धयत् । मलिनीकरणन्यूनकं वैद्युतोत्पादनसमर्थं  काष्ठचुल्ल्याम् प्रवर्तनक्षमम्   एक्को कुक्क् पवर् प्लस्  इति काष्ठचुल्ली एव एतस्य बालशास्त्रज्ञस्य सफलं शास्त्रनिरीक्षणम् ।  हरिप्पाटे सर्वकारमातृकाबालोच्चतरविद्यालयात्  दशमीकक्ष्या परीक्षायां सर्वविषयेषु  ए+ प्राप्तवान् अयं समर्थ: बाल:। ऐक्यराष्ट्रसभाधारस्य ग्लोबल्  अलयन्स् फोर् क्लीन् कुक्क् स्टौ  (मालिन्यरहितचुल्लीपचनागोलसहकरणकार्यक्रमे ) कार्यक्रमे स्थानम् प्राप्तवान्  अप्राप्यपूर्तीकृतवयस्क:  प्रथमव्यक्ति: अयम् । जप्पानस्य शास्त्रसाङ्केतिकसमित्या:तथा केन्द्रशास्त्रसाङ्केतिकविभागस्य च संयुक्ताभिमुख्ये  उच्चविद्यालयछात्राणां कृते  प्रचाल्यमाने  साक्कुरा युवजनविनिमयशास्त्रकार्यक्रमे सप्तदशोत्तरद्विसहस्रतमे केरलात् आदित्य: चित: आसीत्। जप्पाने शास्त्रसाङ्केतिकविदग्धै: नोबल् सम्मानजेतृभि:  सह संवादे भागं वोढुं तत्रत्य शास्त्रसाङ्केतिकसंस्था: सन्द्रष्टुं  कलाकार्यक्रमेषु भागभाक् भवितुं च आदित्यस्य अवसर: प्राप्त:। राष्ट्रपतिभवनस्य मुगलोद्याने मार्च् चतुर्थे प्रचलिते  गवेषणप्रदर्शनोत्सवे भागं गृहीत्वा  एक्को कुक्क्  पवर् प्लस् प्रोजक्ट् राष्ट्रपते: , केन्द्र शास्त्रसाङ्केतिकमन्त्रिण:, केन्द्र वनिता शिशुक्षेममन्त्रिण: च पुरत: अवतारितवान्। अमरीकाया: कोलराडो सर्वकलाशाला, ऐक्यराष्ट्रसभाया: परिस्थितिकार्यक्रम: , डेन्मार्क् साङ्केतिकसर्वकलाशाला या: गवेषणविभाग: एता: संस्था: एक्को कुक्क् पवर् प्लस्  प्रोजक्टं गवेषणाय चितवन्त:। ऐ एस् आर् ओ संस्थाया: आगामिविक्षेपणं साक्षात् द्रष्टुं श्रीहरिक्कोट्टाया: सतीश धवान बहिराकाशकेन्द्रम् प्रति आदित्यं निमन्त्रितवन्त:। एकादशकक्ष्यायां शास्त्रविषयं स्वीकृत्य पठितुमेव अयं वाञ्छति। जप्पानस्य टोकियो सर्वकलाशालायां नेगोया सर्वकलाशालायां  अनुवर्तिशिक्षणं वाग्दत्तमपि। मुद्रणयन्त्रव्यापारिण:प्रशान्तकुमारस्य राजी  प्रशान्तस्य च पुत्रोयम्। तस्य सहोदर: अतुलचन्द्रप्रशान्त:  नवमीकक्ष्यायां   सहोदरी  पार्वती चन्द्रप्रशान्त: षष्ठीकक्ष्यायां च पठत:।