OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 18, 2017

कोच्चीनगरस्य उत्तमदिनानि आगमिष्यन्ति;  प्रधानमन्त्री मोदी।
      
कोच्ची>केरलस्य स्वकीयस्य  कोच्चीनगरस्य  उत्तमदिनानि  समीपभाविनि आगमिष्यन्ति इति कोच्ची मेट्रो रेलमार्गस्य  उद्घाटनवेलायाम् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान्।  केरलस्य अभिमानपद्धतौ भागभाक्  भवति इत्यत:  अभिमानम् भजते - स: सूचितवान्। केन्द्र - केरलसर्वकारयो: समानभागभाक्त्वे  सफल: उद्यम: एव कोच्ची मेट्रो। द्विसहस्रकोटिरूप्यकाणि पद्धते: पूर्तीकरणाय केन्द्रविहितमिति प्रधानमन्त्री असूचयत्।  उपसहस्रसङ्ख्याका: महिला:  त्रयोविंशतिभिन्नलिङ्गा: च  कोच्ची मेट्रो मध्ये कर्मकरा: - मोदिना उक्तम् । परिस्थितिसौहार्दविकसनस्य  उत्तममातृका  एव मेट्रो। मेट्रो पद्धते: पूर्तीकरणाय  सहकारं  दत्तवद्भ्य: कोच्ची नगरवासिभ्य:  तथा  मेट्रो विधानस्य पृष्ठत: यत्नं कृतवद्भ्य: च प्रधानमन्त्री अभिनन्दनानि दत्तवान् ।  केन्द्रसर्वकारेण आविष्कृतस्य "भारते निर्माणम् " ( मेक् इन् इन्ड्या )  पद्धते: दर्शनं व्यक्तीकुर्वन्ति मेट्रो यानस्य पेटिकाविभागा:। भारते निर्मितवस्तूनि उपयुज्य चेन्नै नगरस्य 'अल्स्टोम्' कार्यशालया  ता: पेटिका: ( कोच् )  निर्मिता:। राष्ट्रस्य प्राथमिकसुविधाविकसने प्रत्येकश्रद्धा विधीयते केन्द्रेण। "समर्थनगरम् " ( स्मार्ट् सिट्टी ) पट्टिकाया:  प्रथमचक्रे कोच्चीमपि अन्तर्भावयत्। नाण्यकार्षिकोत्पन्नानां  व्यापारकेन्द्रमिति प्रसिद्धा कोच्ची  इत: परं वाणिज्यकेन्द्रमिति विश्रुतं स्यात्। राष्ट्रे पञ्चाशत् नगराणि  मेट्रो रेल्यानस्य प्रारम्भाय सन्नद्धानीत्यपि प्रधानमन्त्री व्यक्तीकृतवान्।