OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 9, 2017

इत: परम् प्रतिदिनम् मृत्तैलमूल्यं नवीकरिष्यति: जूण् षोडशदिनाङ्कत: प्राबल्ये।
 नवदिल्ली >राष्ट्रे मृत्तैलमूल्यम् प्रतिदिनं नवीकर्तुं सामान्यमेखलातैलशालानां निर्णय:। अस्य मासस्य षोडशदिनाङ्कत: एषा रीति: राष्ट्रे सर्वत्र प्राबल्यम्  भवेत्। पूर्वम्, परीक्षणरूपेण पञ्चनगरेषु गतमासे एषा रीति: प्रवृत्तिपथम् आनीता आसीत्। तैलमूल्यपरिष्कार: पक्षे एकवारम् इति रीति: अवलम्बिता आसीत् राष्ट्रे। किन्तु आगोलविपणिषु  सर्वत्र दिनम् प्रति तैलमूल्यपरिष्करणरीति: अनुवर्तते।  गतमईमासे प्रथमदिनाङ्कत: एव   राष्ट्रे पञ्च नगरेषु  प्रतिदिनं तैलमूल्यम् परिष्कृत्य परीक्षितम् । विशाखपत्तनम्,पुतुच्चेरी, जंषड्पुरम् , चण्डिगढ:, उदयपुरम्  एतेषु नगरेषु  परीक्षिता एषा रीति:।।