OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 12, 2017

महन्नाशं वितीर्य इर्मा-वातः पुरो गच्छति।

           फ्लोरिडा> यु. एस्. राष्ट्रस्य मियामिदेशे महन्नाशं विधायैव इर्मा-वातः वाति स्म। मृत्युं गतेषु चतुर्षु रक्षाकार्ये व्यापृतः कश्चित् आरक्षकः अपि अन्तर्भवति । मियामिप्रदेशे षट्‌पञ्चाशत् लक्षं जनाः इदानीमपि विद्युच्छक्तिं विना जीवन्ति।  विभिन्नप्रदेशाः अपि सांक्रमिकरोगभीत्याम् एव सन्ति। इर्मा चक्रवातस्य तीव्रता न्यूनीभूय प्रथमविभागे  लघीभूता। तदन्तरे दुरन्तं लाभान्वितं कृत्वा मोषणं, बलात् अपहरणं च अधिकतया आवेदितं वर्तते।  जलोपप्लवभीतेः कारणात् अभयार्थिशिबिरे एव वसन्तु इति अधिकारिणः जनान् निर्दिष्टवन्तः। चक्रवातप्रसृतप्रदेशेभ्यः एतावत्  पर्यन्तं द्रुतशासनव्यवस्था न प्रतिस्वीकृता। अपि च इर्मानाशितप्रदेशस्थाः भारतीया: सुरक्षिताः इति केन्द्रसर्वकारेण  ज्ञापितम्। यु. एस्. राष्ट्रस्थस्य सर्वेभ्योपि राजदूतकार्यालयेभ्यः नियमकार्यविलम्बं परिहार्य स्वदेशं प्रति पारपत्रं  यात्राचीटिका च दीयेते इति भारतराजदूतकार्यालयेन सूचितम्।