OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 19, 2019

द्वितीयसोपाने मतदानं ६६%! 
नवदिल्ली >  गुरुवासरे सम्पन्ने भारतलोकसभानिर्वाचनस्य द्वितीयसोपाने प्रतिशतं षड्षष्टि जनाः मतदानाधिकारं विनियुक्तवन्तः इति निर्वाचनायोगस्य वरिष्ठः उपायुक्तः उमेष् सिंहः निगदितवान्। ११ राज्येषु तथा केन्द्रशासनप्रदेशे पुतुश्शेर्यां च ९५ लोकसभामण्डलेषु निर्वाचनं सम्पन्नम्। 
   बीहार्, उत्तरप्रदेशः, महाराष्ट्रं, जम्मुकाश्मीरः, ओडीषा इत्येतेषु राज्येषु मतदानविनियोगः न्यूनमासीत्। तमिल् नाट् राज्ये ३८ मण्डलेषु निर्वाचनं सम्पन्नम्। तत्रस्थस्य वेल्लूर् मण्डलस्य निर्वाचनं आर्थिकं व्यवहारनियमलङ्घनमारोप्य निरस्तमासीत्। 
   विविधराज्येषु मतदानप्रक्रिया प्रतिशतरूपेण -   वंगः - ७५.२७, मणिप्पुरं - ७५.६९, असमः - ७३.३१, पुतुश्शेरी - ७२.४०, छत्तीसगढ - ६८.७०, कर्णाटकं - ६७.६७, तमिल्नाट् - ६१.५२, बीहार् - ५८.१४, उत्तरप्रदेशः - ५८.१२, ओडीषा - ५७.४१, महाराष्ट्रं - ५५.३७, जम्मुकाश्मीरः - ४३.३७।