OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 30, 2019

सहजीविने व्यथितमनस्काय शिशवे विश्वस्य आदरः। 
डेरिक् सि लालः कुक्कुटपोतं गृहीत्वा
आतुरालयाधिकृतानां पुरतः। 
 ऐसोल् >  एकस्मिन् हस्ते कुक्कुटशाबकम् अन्यस्मिन् दशरूप्यकमुद्रां च धृत्वा आतुरालयाधिकृतान् शाबकस्य जीवरक्षणाय याच्यमानं शिशुमुखं तरसा न विस्मर्यते। एषः डेरिक् सि लल्चानिम नामकः मिसोरां देशीयः बालकः। सहजीविने सन्तप्तहृदयः सः अन्ताराष्ट्रसमूहेन समादृतः अस्ति। 'पेट्टा' नामकेन अन्ताराष्ट्र पशु संरक्षणसंघटनेन [People for Ethical Treatment of Animals] "करुणार्द्रहृदयः शिशुः" पुरस्कार एव [Compationated Kid] डेरिक् बालकेन प्राप्तः। 
  घटना एवं । मिसोरामराज्ये सायरङ्गनगरवासी अयं षड्वयस्कः बालकः यदा स्वस्य द्विचक्रिकामारुह्य स्वगृहपरिसरे संक्रमणं अकरोत् तदा कस्यचन कुक्कुटशाबकस्य उपरि द्विचक्रिकाचक्रं आरुह्य तं पेषयामास।  सन्तप्तहृदयः सः तं कुक्कुटशाबकं संगृह्य समीपस्थम् आतुरालयमधावत्। हस्ते गृहीतां दशरूप्यकमुद्रां प्रसार्य कुक्कुटशाबकं रक्षितुम् आतुरालयाधिकृतान् अयाचत। किन्तु तस्मिन्नाभ्यन्तरे कुक्कुटपोतः मृत अभवत्। 
  परन्तु कुक्कुटशाबकं धारयन्तं तं काचन अनुवैद्या स्वजङ्गमदूरवाणीद्वारा चित्रीकृत्य पादटिप्पण्या सह समाजमाध्यमेषु न्यक्षिपत्। तत्तु आविश्वं  प्रासारयत्। अभिनन्दनानि तमन्वागच्छन्। प्रथमं स्वस्य विद्यालयेन सः समादृतः। अन्ते अन्ताराष्ट्रसमादरणं च। 
  बालकेषु पशुसहानुतिसंवर्धनं मानवमभिव्याप्य समस्तजीवजालं प्रति सहानुभूतिवर्धनाय सहायकमिति पेट्टा इन्डिया संस्थया पत्रिकाटिप्पणिना उक्तम्।