OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 10, 2019

संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमाय बलदेवानन्द सागर-महोदयाय  राष्ट्रपतेः सम्मान-प्रमाणपत्र-प्रदानम् 
     -  हेमन्त-जोशी

   नवदिल्ल्याम् अशोका-होटेल्-इत्यत्र मासेऽस्मिन् ४-दिने राष्ट्रपतेः सम्मान-पत्रेण महर्षि-बादरायण-व्यास-सम्मानेन च वरिष्ठाः युवानश्च प्रायेण शताधिकाः विद्वान्सः भारतस्य माननीयेन उपराष्ट्रपतिना वैङ्कय्या-नायडु-महोदयेन सभाजिताः। अवसरेऽस्मिन् भाषमाणः माननीयः उपराष्ट्रपतिः अब्रवीत् यत् पुरातनानां भारतीय-भाषाणां सम्वर्धनं संरक्षणञ्च साम्प्रतं परमावश्यके स्तः | 
     अत्रावसरे आकाशवाण्याः दूरदर्शनस्य च सुख्यातः संस्कृत-वार्त्ताप्रसारकः डॉ.बलदेवानन्द-सागरः संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमः सन् राष्ट्रपतेः सम्मान-पत्रेण सभाजितोऽस्ति | 
    इदमत्र विशेषेण अवधेयमस्ति यत् सागर-महोदयः साम्प्रतमपि व्यक्तिशो वा वैद्युताणविक-सञ्चारमाध्यमैः संस्कृतस्य शिक्षण-प्रशिक्षण-प्रवाहिनीं प्रवाहयति| संस्कृत-पत्रकारिताम् अभिलक्ष्य अमुना महोदयेन संस्कृत-भाषायामेव प्रथमं “संस्कृतपत्रकारिताः इतिवृत्तम् अधुनातन-स्वरूपञ्च” इति पुस्तकम् अलेखि| इदमपि उल्लेखनीयं यत् जगति प्रथमोऽयं संस्कृत-वार्त्ता-प्रसारको येन १९९४-तमे वर्षे ओगस्ट-मासे २१-विंशे दिने दृश्य-वाहिनीतः [दूरदर्शनात्] प्रथमवारं वार्त्ता-प्रसारणम् आरब्धम्| संस्कृत-शिक्षा-जगतः संस्कृतवार्त्ता-श्रोतृवर्ग-पक्षतश्च सागर-महोदयस्य कृते कोटिशो मङ्गलकामनाः वितीर्यन्ते |