OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 12, 2020

कोरोणा महाव्याधिः - विश्वस्वास्थ्यसंघटनम्। 
  न्यूयोर्क् > कोरोणाविषाणुः १२१ राष्ट्रेषु व्यापृतः इत्यतः कोविड् - १९ रोगः महाव्याधिरूपेण विश्वस्वास्थ्यसंघटनेन [WHO] प्रख्यापितः। WHO संस्थायाः अध्यक्षः टेड्रोस् अथनोमगब्रियूसः एवायं प्रख्यापनं कृतवान्। इदानीं विविधराष्ट्रेषु १,२२,२८९ जनाः कोरोणाबाधिताः वर्तन्ते। ४३८९ जनाः मृत्युमुपगताः।
   सामान्येन सर्वाणि राष्ट्राणि कोणोणाभीतिम् अभिमुकुर्वन्तीति गब्रिसियूसः अवदत्। अनेन हेतुना महाव्याधिरूपेण प्रख्यापितः। 
* भारते कोरोणाबाधिताः ६७! महाराष्ट्रे नूतनतया १० जनानां बाधेयं स्पष्टीकृता!
* ब्रिट्टनस्य स्वास्थ्यमन्त्री नडैन् डोरिस् इत्येषः कोरोणाबाधितः इति दृढीकृतः!
* इट्टलीराष्ट्रे ६३१, इराने ३५४ च जनाः इतःपर्यन्तं कालगतिं प्राप्ताः! चीने ह्यः २२ मरणानि अभवन्! यूएस् राष्ट्रे मृत्युसंख्या ३१ अभवत्!