OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 9, 2020

अन्ताराष्ट्रिय-महिला-दिवसम् उपलक्ष्य केन्द्रीय-संस्कृति-पर्यटन-मन्त्रिणे सिन्धी-भाषायाः पुस्तकानि अर्पितानि ।


   अन्ताराष्ट्रिय-महिला-दिवसम् उपलक्ष्य सिन्धी-भाषायाः सुख्याता लेखिका कवयित्री च शालिनी-सागर-महोदया स्वीय-पुस्तकानि केन्द्रीय-संस्कृति-पर्यटन-मन्त्रिणे श्रीमते प्रह्लाद-सिंह-पटेल-महाभागाय आर्पयत्, अपि च सिन्धी-भाषायाः सुबहु प्रचार-प्रसार-हेतोः संस्कृति-पर्यटन-मन्त्रालययोः सहयोगं मार्ग-दर्शनञ्च विवर्धयितुं मन्त्रि-महोदयं निवेदितवती। आकाशवाण्याः विदेश-प्रसारण-सेवा-विभागे सिन्धी-भाषायाः अनुवादिका प्रसारिका [निवृत्ता] च शालिनी-सागर-महोदया गद्य-पद्य-विधायां षट् पुस्तकानि विरचय्य प्रकाशितवती। सा पण्डितराज-जगन्नाथस्य ‘गङ्गालहरी’-इति स्तुति-काव्यस्य सिन्धी-भाषन्तरणं व्यदधात्, तथा च, साहित्य-अकादम्याः कृते भगवतः भाष्यकारस्य भगवत्-पादस्य आदिशङ्करस्य ‘प्रश्नोत्तर-रत्नमालिकां’ च सिन्धी-भाषान्तरेण विभूषितवती । तस्याः अन्यतमेन लघुकथा-संग्रहेण दिल्ली-सिन्धी-अकादम्याः उत्कृष्ट-कथा-लेखन-पुरस्कारोऽवाप्तः।
हेमन्त-जोशी
अणुप्रैषः - hemantjoshi.media@gmail.com