OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः। व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

 चाटुश्लोकस्पर्धा

Pratikriti https://www.firstshows.com/movie/pratikriti

श्लोकस्य उत्तरम् अद्य सायं पञ्चवादनात् पूर्वं अस्माकं सैट् मध्ये विद्यमानया सन्देशसुविधा द्वारा प्रेषणीयम्। यः उत्तरम् प्रथमं प्रेषयति सः प्रति कृति नाम संस्कृतचलनचित्रं निशुल्कं OTT माध्यमेन द्रष्टुम् अर्हः अस्ति। सन्देशे दुरवाणीसंख्या अपि दीयताम्।Pratikriti https://www.firstshows.com/movie/pratikriti



MAIL BOX

Name

Email *

Message *

Monday, August 10, 2020

आन्ध्रप्रदेशे कोविड् आतुरालये अग्निबाधा - दश मरणानि।

विजयवाडा> आन्ध्रप्रदेशे विजयवाडस्थे कस्मिंश्चित् कोविड् परिचर्यालयगृहे रविवासरे उषसि दुरापन्नायामग्निबाधायां दश जनाः मृताः। कोविड्रोगिणां चिकित्सार्थं निजीयातुरालयेन भाटकरूपेण विधत्ते गृहे आसीदियं दुर्घटना। ४० रुग्णाः १० परिचारकजनाश्चात्रासन्। मृताः सर्वे रोगबाधिता इति प्रस्तूयन्ते। 'Short circuit' नामकहेतुना एव दुर्घटना जातेति गृहमन्त्रिणा एम् सुचैत्रेणोक्तम्।