OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 2, 2021

 केरलेषु विद्यालयाः उद्घाटिताः। 

     कोच्ची> केरले १०, १२ कक्ष्यास्थानां कृते विद्यालयाः नववत्सरदिने उद्घाटिताः। सर्वकारस्य कोविड्सुरक्षामार्गनिर्देशान् अनुसृत्य एव  पाठ्यपाठनादीनि सञ्चालनीयानि। छात्राणां तथा शिक्षकानां च सुरक्षामालक्ष्य मार्गनिर्देशाः विज्ञापिताः।

   एकस्मिन् काले ५०% छात्राणां कृते भवेत् कक्ष्याचालनम्। तत्तु होरात्रयं भविष्यति। ततःपरं अणुनाशनं कृत्वा अवशिष्टेभ्यः ५०% छात्रेभ्यः कक्ष्या चालनीया। 

  जनवरी प्रथमदिनादारभ्य मार्च्मासस्य १६ दिनाङ्कपर्यन्तम् एवं विधं सन्देहनिवारणाय प्रायोगिक-परीक्षापरिशीलनाय च रक्षाकर्तृृृणामनुज्ञया विद्यालये अध्ययनं कर्तुमर्हन्ति छात्राः।