OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 27, 2021

 संस्कृतं जनभाषा भवेत् इति आमुखपटलसमूहेन संस्कृत स्तोत्रप्रतियोगिताया: आयोजनं कृतम्।

वार्ताहर: - दीपकः शास्त्री

    जयपुरम्> संस्कृतस्य संरक्षणाय, वर्धनाय, प्रचाराय च आमुखपटले "संस्कृतं जनभाषा भवेत्" इति नाम्ना संस्कृतस्य बृहद् समूह: वर्तते। समूहे प्रतिदिनं संस्कृतस्य लेखा:, हास्यकणिका:, चलचित्राणि च संस्कृतज्ञा: प्रेष्यन्ति। बाला: अपि संस्कृतं प्रति आगच्छेयु: इति विचिन्त्य बालानां कृते संस्कृतस्य प्रतियोगिताया: आयोजनं करोति। अस्मिन् वर्षे समूहेन "संस्कृत स्तोत्रप्रतियोगितायाः" आयोजनं कृतम्। अस्यां प्रतियोगितायां सम्पूर्ण भारतदेशात् ३० बालका: बालिकाश्च भागं गृहीतवन्त:। प्रतियोगितायां बालका: बालिकाश्च संस्कृतस्तोत्रं गीत्वा चलचित्रं निर्मित्वा प्रेषितवन्त:। प्रतियोगितायां द्वयो: वर्गयो: निर्माणं अभवत्। अस्या: परिणाम: जनवरीमासस्य षड्विंशति: दिनाङ्के घोषित:। अस्यां प्रतियोगितायां प्रथमवर्गे (३-१० वर्षम्)  प्रथमस्थानं गुजरातत: बालिका जैनी प्रतीक, द्वितीयस्थानं गुजरातत: बालक: व्यासदेवर्षि:, तृतीयस्थानं च गुजरातत: बालिका व्यास प्रियांशी च प्राप्तवन्त:।

 एवं च द्वितीयवर्गे (११-१८ वर्षम्) प्रथमस्थानं गुजरातत: बालिका व्यास रुद्राक्षी, द्वितीयस्थानं मध्यप्रदेशत: बालक: आशीष: शुक्ला, तृतीयस्थानं च मध्यप्रदेशत: बालक: चंचल: मिश्रा च प्राप्तवन्त:। एते सर्वे प्रतियोगितायां अधिका: अंका: प्राप्तवन्त:। प्रतियोगितायां ये भागं गृहीतवन्त: तेषां कृते समूहपक्षत: प्रमाणपत्राणि लब्स्यन्ति। अस्या: प्रतियोगितायाः पुरस्कारप्रायोजकरूपेण रा. ई. का. कोटद्वारे सहायक-संस्कृतशिक्षकरूपेण कार्यं करोति श्री कुलदीपकुमार: मैन्दोला अस्ति। महोदयपक्षत: प्रथमद्वितीयतृतीयविजेतृभ्य:(द्वयो: वर्गयो:) क्रमश: ३००, २५०, १५० इति पुरस्कारराशिं प्रदास्यति। प्रतियोगितायां मीडियापार्टनर इति रूपेण सूरततः दैनिकप्रकाशितं संस्कृतसमाचारपत्रं "विश्वस्य वृत्तान्त:" अस्ति। प्रतियोगिताया: आयोजक: समूहस्य सञ्चालक: दीपकः शास्त्री अस्ति।