OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 13, 2021

 वाक्सिनप्रयोगाय भारतं सज्जं - प्रथमसोपानस्य व्ययः केन्द्रसर्वकारेण। 

   नवदिल्ली> कोविड् १९ रोगस्य प्रत्यौषधसूचीप्रयोगस्य प्रथमसोपानाय भारतं सर्वथा सज्जमस्तीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्। वाक्सिनीकरणस्य सिद्धतामवलोकयितुं समावेशिते मुख्यमन्त्रिणामुवेशने भाषमाणः आसीत् मोदिवर्यः।  शनिवासरे प्रक्रियेयमारभ्यते। 

   प्रथमसोपाने स्वास्थ्यप्रवर्तकाः कोविड्युद्धस्य सेनामुखे वर्तमानाः च अभिव्याप्य त्रिकोटिपरिमिताः भटाः वाक्सिनार्हाः भविष्यन्ति। अस्य व्ययः सर्वः केन्द्रसर्वकारेणैव वक्ष्यतीति प्रधानमन्त्रिणा उक्तम्। 

  कोवाक्सिन्, कोविषील्ड् नामकं वाक्सिनद्वयमेव वितरणाय सज्जमस्ति। कतिपयमासाभ्यन्तरे दशकोटिजनेभ्यः वाक्सिनदानं लक्ष्यीक्रियते। राजनैतिकप्रवर्तकेभ्यः यथाकालं वाक्सिनं लप्स्यते इति प्रधानमन्त्रिणा प्रस्तुतम्।