OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 24, 2021

 संस्कृतशिक्षकाणाम् अन्तर्जालीयमुपवेशनम्

    उत्तराखण्डस्य शासकीयेषु शासनेतरेषु च विद्यालयेषु कार्यरतानां संस्कृतविषयाध्यापकाणाम् अन्तरजालीयम् उपवेशने रविवासरे आयोजितम्। अस्मिन् उपवेशने प्रदेशस्य द्वितीयराजभाषात्वेन घोषिते सत्यपि विद्यालयेषु शिक्षकाणां नैयून्यं सविशेषं परिचर्चितम्। विषयेस्मिन् शासकीयौदार्यम् अपाकर्तुं सम्मर्षाः समागताः।

राज्ये संस्कृतविषयस्य प्रवक्तृणां सहायकशिक्षकाणां चोपवेशने माध्यमिक-विद्यालयेषु उच्चतरमाध्यमिक-विद्यालयेषु च संस्कृतशिक्षकाणां सृजितपदेषु अधिकांशपदेषु रिक्तता कारणेन छात्रेभ्यः गुणवत्तापूर्ण-शिक्षा नैव प्रदीयते। अत्रावसरे शिक्षकैः प्रोक्तं यत् विद्यालयेषु अन्यविषयाणां शिक्षकाः वैकल्पिक-व्यवस्थाम् अनुसरन् संस्कृतं पाठयितुं बाध्याः सन्ति। निगदितं च यत् प्रशासनेन उत्तराखण्डस्य द्वितीया राज्यभाषा तु प्रतिपादिता परं धरातले तदैव मूर्तत्वं गच्छति यदा अस्याः संवर्धनाय समुन्नयनाय परिवर्धनाय छात्रहिताय गुणवत्तापूर्णशिक्षायै च नीतिपूर्णा कार्ययोजना निर्मास्यते ।

उपवेशने द्वितीयराजभाषां समुन्नेतुं नैके सम्मर्दाः समुपस्थापिताः। माध्यमिक-स्तरे अनिवार्यविषयत्वेन संस्कृतशिक्षणम् उच्चतरमाध्यमिक-स्तरे च द्वितीयभाषात्वेन संस्कृतशिक्षणम् संस्कृतविषयस्य सहायकशिक्षकाणां प्रवक्तृणां च रिक्तपदेषु नियुक्तिः शासकीय-साहाय्य-प्राप्त-विद्यालयेषु शासनेतर-विद्यालयेषु च संस्कृत-शिक्षकाणां पदसृजनम् अथ च स्थायि-नियुक्तिं यावत् अतिथि-शिक्षकाणां नियुक्तिः इत्येतादृशाः विषयाः प्रमुखाः अवर्तन्त।