OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 11, 2021

 स्पेयिन् देशे महान् हिमपातः। जनाः वाहनेन सह हिमस्य अधः बन्धितः। 

    माड्रिड्> कठिनहिमपातेन अतिशीतवातेन च स्पेयिन् प्रदेशस्थाः पीडिताः भवन्ति। चत्वारः जनाः मृताः इति आवेदनम् आगच्छति। सहस्राधिकाः रेल् निस्थानेषु विमान-निलयेषु च बन्धिताः। रेल्-विमान सेवा स्थगिता। फ्यूवेन्गिरोल प्रदेशे नद्यां जलोपप्लवः अभवत् इत्यनेन प्रवाहे कार् यानानि विनष्टानि। यानात् बहिरागन्तुम् अशक्तौ द्वौ मृतौ। अन्यः एकः हिम-घण्डस्य अधस्तात् मृतावस्थायां प्रत्यभिज्ञातः। भवनरहितः एक: अपि मृतानां गणेषु अन्तर्भवति। राज्येषु सर्वत्र पूर्वसूचना प्रदता अस्ति।