OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 28, 2021

 चतुर्षु राज्येषु पुतुच्चेर्यां च विधानसभानिर्वाचनानि प्रख्यापितानि। 

   नवदिल्ली> भारते असमः केरलं पश्चिमवंगः तमिल्नाट् इत्येतेषु राज्येषु पुदुच्चेरी नामककेन्द्रशासनप्रदेशे च विधानसभानिर्वाचनानि उद्घुष्टानि। मार्च् २७ दिनाङ्कतः निर्वाचनप्रक्रिया समारप्स्यते। मतगणना मेय् द्वितीयदिनाङ्के भविष्यति। 

   पश्चिमवंगे अष्टसोपानात्मकमतदानप्रक्रिया मार्च् २७ तमे अरभ्यते। अष्टमसोपानं एप्रिल् २९दिनाङ्के समाप्स्यते।  असमेSपि तद्दिने आरभ्यमाणे मतदानकार्यक्रमे त्रीणि सोपानानि सन्ति। अन्तिमसोपानम् एप्रिल् ६ दिनाङ्के भविष्यति। 

  केरलं तमिल् नाट् पुतुच्चेरी इत्येतेषु स्थानेषु एप्रिल् षष्ठदिनाङ्के मतदानं सम्पत्स्यते। कोविड् सुरक्षानियमान् परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्तीति मुख्यनिर्वाचनाधिकारी सुनिल् अरोरः वार्ताहरसम्मेलने उक्तवान्।