OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 18, 2021

 दूरदर्शनस्य "वार्तावली" कार्यक्रमः ३०० तमं संस्करणं सम्प्राप्तम्। 


    नवदिल्ली> दूरदर्शने डी.डी.न्यूज़-वाहिन्या प्रसार्यमाणस्य "वार्तावली" कार्यक्रमस्य ३०० तमं संस्करणं प्रसारितम्। अयं साप्ताहिक-कार्यक्रमः संस्कृत-भाषायाः प्रचाराय अभिनवोपक्रमो विद्यते। प्रतिसप्ताहं संस्कृतप्रेमिभ्यः आनन्दाय कल्पते वार्तावली। शनिवासरे सायं षड्वादने कार्यक्रमस्य प्रसारणं भवति। रविवासरे च पुनः प्रसारणं भवति। वार्तावल्याम् अस्मिन् सप्ताहे प्रो.रमाकान्तपाण्डेय-महोदयानां साक्षात्कारः प्रसारितः। सुनीलजोशी वर्येण साधिते साक्षात्कारे आचार्यः पाण्डेयमहोदयः साहित्यशास्त्रमर्मज्ञः संस्कृतविद्वान् स्वतन्त्रतायाः अमृतमहोत्सवम् आलक्ष्यय संस्कृतस्य भूमिकां प्राकटयत्। अयं कार्यक्रमः संस्कृतध्वजां नूतनोत्कर्षे प्रतिष्ठापयेदिति आस्माकं कामनाः।