OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 14, 2021

 ओलिम्पिक्स् विजयिनां कृते नानाकर्ममण्डलव्यवहर्तॄणाम् अभिनन्दनानि संस्कृतभाषया - संस्कृतसमित्योः सविशेषः पदक्षेपः।  

संस्कृतभाषया क्रीडकाभिनन्दनकार्यक्रमस्य
उद्घाटनं वीडियोप्रकाशनेन प्रोफ. एम् के सानुवर्यः निर्वहति।

 कोच्ची> २०२१ टोक्यो ओलिम्पिक्स् मध्ये भारताय पदकानि सम्पादितवतां क्रीडकाणां कृते जीवनस्य नानामण्डलेषु कर्म कृतवद्भिः संस्कृतभाषया अभिनन्दनानि कारयित्वा केरलेषु द्वे विद्यालयीयसंस्कृतसमित्यौ। एरणाकुलं नगरस्थस्य  दक्षिणचिट्टूर् सेन्ट् मेरीस् प्राथमिकविद्यालयस्य तथा वैप्पिन् प्रदेशस्थस्य  कर्तेटं प्राथमिकविद्यालयस्य संस्कृतसमित्यौ एव एतादृशनूतनपदक्षेपस्य कार्यकर्तारः। 

  कार्यक्रमस्यास्य उद्घाटनं केरलस्य प्रमुखः साहित्यनिरूपकः प्रोफ. एम् के सानुवर्यः 'वीडियोप्रकाशनेन' अकरोत्। भाषाप्रचारणाय सविशेषः आदर्शभूतश्च उद्यम एवायमिति सानुवर्यः उक्तवान्। सोSपि संस्कृतेन अभिनन्दनानि समार्पयत्। संस्कृतभाषायाः सामान्यजनेषु प्रचारः तद्वारा आभिमुख्यसंवर्धनमेवानेन  कार्यक्रमेण लक्ष्यं कल्पते इति दक्षिणचिट्टूरविद्यालयस्य संस्कृतशिक्षकः तथा च 'केरल संस्कृताध्यापकफेडरेषन्' संघटनस्य एरणाकुलं जनपदाध्यक्षः  अभिलाष् टि प्रतापः उक्तवान्। तस्य पत्नी शारीदासः कर्तेटं विद्यालयस्य शिक्षिका अस्ति। 

   विद्यालयद्वयस्थान् छात्रान् अतिरिच्य  कोच्चीनगरपिता नीतिज्ञः  एम् अनिल्कुमारः, जिल्लाशैक्षिकाधिकारी एम् पी ओमना, उपजिल्लाधिकारी एन् एक्स् आन्सलामः, राजनैतिक-सांस्कृतिकमण्डलेषु विद्यमानाः प्रमुखाः, भिषग्वराः, नीतिज्ञाः, कर्मकराः,सामान्यजनाः इत्यादयः एतस्मिन् अभिनन्दनकार्यक्रमे भागं कृतवन्तः।